Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपसग्रहणी
कुरुमज्झेत्ति कुरुमध्ये चउरासिसहस्साइंति चतुरशीतिसहस्नाणि तहयत्ति तथा च, विजयसोलससुत्ति विजयषोडशसु, बत्तीसाणत्ति द्वात्रिंशानां नईणात नदीनां, चउदससहस्साइति चतुर्दशसहस्राणि, पत्तेयंति प्रत्येकं इति पदसंघटना । अयं भावः । निषधनीलवतोस्तिगिञ्छिकेसरिद्रहयोरुदीचीनदाक्षिणात्यद्वारयोः सीतोदासीताभिख्ये द्वे सरितौ निर्गते। तथा हि तिगिञ्छिद्रहोदीचीनद्वारान्निर्गता सीतोदा देवकुर्वन्तरालगच्छन्ती निषधादिद्रहाणां द्विभागीकुर्वन्ती दहेभ्यो वहन्ती चतुरशीतिसहस्रनदीपूर्णा भद्रशालवनमागच्छन्ती मेरोः प्रतीच्या प्रतीचीनविदेहं द्विभागीकुर्वन्ती एकैकस्माद्विजयात् अष्टाविंशतिसहस्रनदीपूरयन्ती तथा च षोडशविजयेभ्यः चतुर्लक्षाष्टचत्वारिंशत्सहस्रनदीपरिवृता सर्वाः संमील्य पञ्चलक्षद्वात्रिंशत्सहस्रनदीपरिवृता जंबूद्वीपप्रतीचीनजयन्ताभिधद्वाराधोजगती भित्त्वा पार्श्वयोः पद्मवरवेदिकावनखण्डपरिकरिता लवणजलधि सङ्गच्छति । तथैव सीताऽपि पञ्चलक्षद्वात्रिंशत्सहस्रनदीपरिवृता प्राचीनलवणोदधि सङ्गच्छति । ऐदंपर्यमादिदिक्षुग्रन्थकार एव तत्त्वं स्पष्टीकरोति' ।
चउदससहस्स गुणिया अडतीस नइओ विजयमज्झिल्ला
सीयोयाए निवडंति तहय सीयाइ एमेव ॥२४॥ चउदससहस्सगुणियत्ति चतुर्दशसहस्रगुणिता अडतीसनईओत्ति अष्टात्रिंशन्नद्यो विजयमज्झिल्लत्ति विजयमध्यवर्तिन्यः सीमोपाए सीतोदायां निवडंति निपतन्ति तहयत्ति तथा च सीयाइंति एमेवत्ति एवमेव, प्रत्येकं चतुर्दशसहस्रगुणिता अष्टत्रिंशन्नद्यो नीलवन्निर्गतायां इति पदसंघटना । अयं भावार्थः । निषधनिर्गतायां निषधादिद्रह द्विभागीकुर्वन्त्यां द्रहेभ्यो वहन्यां प्रतीचीनविदेहवर्त्तिन्यां अष्टत्रिंशन्महानद्यो मिलन्ति, प्रत्येकं चतुर्दशसहस्रपरिवारास्तथाहि निषधनीलवन्नगयोरधः प्रत्येकं षट् षट् कुण्डानि, तेभ्यश्च, प्रत्येकं षट् षट् नद्यो निर्गतास्तथा च ताः सीतोदासीतयोः प्रत्येकं मिलन्ति षट् षट् । तथाहि गाहावतकुण्डाद् गाहावती निर्गता १ हृदावतकुण्डाद् हृदावती २ पङ्कावताभिस्यकुण्डात्पङ्कावती (वेगवती) ३ तप्तजलाभिधकुण्डात्तप्तजला ४ मत्तजलायान्मराजला ५ उन्मत्ताभिधानात कुण्डादुन्मत्ता ६ क्षीरोदकुण्डात् क्षीरोदा ७ शीतश्रोतो ऽभिधानाच्छीतश्रोता ८ अन्तर्वाहिनो अन्तर्वाहिनी ९ ऊर्मिमाल्यभिधकुण्डादूमिमालिनी १० गम्भीरमालिनः कुण्डाद् गम्भीरमालिन्यभिधसरिन्निर्गता ११ फेनमाल्यभिधकुण्डान्निर्गता फेनमालिनी १२ । आसां देवीदीपादिवक्तव्यत्ता रोहितांशावद्वक्तव्या । नवरम मिलापभेदः । सर्वा अपि पद्मवरवेदिकावनखण्डपरिकन्तिा: पार्श्वयोः प्रत्येकमवसेया: । तासु षट् सीतोदायां सङ्गच्छन्ते षट् च सीतायां, एवं च षट् तथा प्रतीचीनविदेहे षोडशविज यास्तेष्वष्टौ दक्षिणस्यां अष्ट
१. अत्र प्राचीन कानुसारेण एवं व्याख्याने कृते विजयच्छेदिनीनां गाहावत्यादीनां षण्णां नदीनां प्ररुपणा उपेक्षिता भवत्यतस्तद्वर्णनाय वाचनान्तरेण द्वितीयप्रकारमाह-' इति अवतरणिका संभवति ।
i Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142