Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीक जंबू द्वीपसग्रहणी
तथा वैजयन्तजयन्तापराजिताख्यान्यपि भावनीयानि । नवरमधिष्ठातृविशेषत्वाद्विशेषितानि । एषां चतुर्णामपि देवानां प्रत्येकं चत्वारि सहस्राणि सामानिकाः सुराः, अष्टौ अष्टौ सहस्राण्यान्तरपर्षदां, दश दश सहस्राणि मध्यपर्षदां, द्वादश द्वादश सहस्राणि बाह्यपार्षदाः, चतस्रः चतस्रः अग्रमहिष्यः प्रत्येकं सहस्रेण परिवारैर्युताः, सप्त सप्त सेनाः, सप्त सप्त च सेनाधिपतयः, षोडश षोडश सहस्राणि आत्मरक्षितदेवाः । सर्वे चैते पल्योपमायुषः पूर्वोक्तानां स्वस्वपरीवाराणां निजनिजनगरीनिवासिनां व्यन्तराणां व्यन्तरीणां च आधिपत्यं भुञ्जन्ति । तत्र विजयद्वाराधिपतेविजयदेवस्य विजयद्वारतः पूर्वदिशि असङ्ख्येयान् द्वीपाब्धीन् समतिक्रम्यापरत्र जम्बूद्वीपे द्वादशसहस्रयोजनायामविशाला रत्नमयवप्रयुता राजधानी विराजते । वनोऽयं सार्थसप्तत्रिंशद्योजनानि उच्चः सार्धद्वादशयोजनानि विस्तृतमूलः । सपादषट्योजनविस्तृतमध्यः, सार्धत्रययोजनविशालशिराः । तथोक्तं जीवाभिगमे – “ से पागारे सत्तत्तीस जोयणाई अद्भजोयणं च उर्दु उच्चत्तेणं " श्रीसमवायांगे तु – “सव्वासु णं विजयवैजयन्तजयन्त अपराजिआसु रायहाणीसु पागारा सत्ततीस जोयणाई उ8 उच्चत्तेणं पण्णत्ता" इत्युक्तमिति ज्ञेयम् ॥
समाप्तेयं टीका
अथ प्रशस्तिः सिद्धार्थान्वयचन्द्रमा जिनवरो भव्याम्बुजोल्लासकृत् गोभिमहिमहान्धकारनिकरस्याशु प्रणाशोद्यतः । तीर्थाम्भोधिसमुद्भवोऽप्यभिनयं तीर्थाम्बुधि स्थापयन् वीरोऽपश्चिमतीर्थराइ भुवि सदा भूयाद्भितायात्र नः ॥१॥ वीरास्यपद्मदनिर्गतं यो लब्ध्वा पदानां त्रिकमद्वितीयम् । आदृष्टिवादाभिधसूत्रमयं जग्रन्थ जीयात् स सदेन्द्रभूतिः ॥२॥ श्रीवीरपट्टोदयपर्वतार्कः श्रीमान् सुधर्मा गणनायको यः । नुवन्ति देवासुरमानवेन्द्रा यं सोऽस्तु शश्वद्भवशीतशान्त्यै ॥३॥ तत्पट्टपूर्वाचलभास्करोऽभूत जम्बूमहात्मा चरमो जिनेषु । जिगाय कामं जितसर्वसत्त्वं बाल्येऽपि यस्तं प्रणमामि कामम् ॥४॥ परम्परातश्च तदीयवंशे गच्छं तपःप्रौढिमजात कीर्ति। तपाभिधेयं सुरराजसेव्यं बिभर्ति सूरिर्विजयादिनेमिः ॥५॥ यत्पादपद्म सुरमानवेन्द्रौ नित्यं नुतो हर्षभरातिभक्त्या । यद्देशनावाग्विधुौर्जनानां चेतो दृषत्प्लावयति प्रकामम् ॥६।। हेमप्रभाव्याकरणं विनेयबोधाय चक्रे ध्वनिशास्त्रविज्ञः । सन्न्यायसिन्धुप्रमुखाणि तर्का-दिशास्त्रविज्ञो विदधे तथा यः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142