Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 125
________________ घने तु शम्याः क्षरणं न चिद् विना, न वा लतावृत्तिविसर्पणं तथा । विशिष्टकालेषु फलप्रदातृता वनस्पतीनां न हि चेतनामृते ॥६२।। मनुष्यदेहाश्चरणादिभिन्ना यथा क्षयं यान्ति तथा तरूणाम् । देहाः फलादेरपर्चीयमानात् , क्षैण्याश्रया नो मतिमन्तरा स्युः ॥६३॥ क्षीरोदनव्यञ्जनादे-राहाराच्चेतनं यथा । मानवानां वपुस्तद्वद् वृक्षादेस्तत्सचेतनम् ॥६४।। तथाहि भूजलादीना-माहारोऽस्याऽवलोक्यते । केदारजलसेकादि तद्विना यन्न युज्यते ॥६५॥ नियतायुष्कभावेन नरदेहेऽस्ति चेतना । यथा तथा द्रुमाणां सा नियतायुष्यदर्शनात् ॥६६॥ तथाहि अन्तर्मुहूत्तमायुः स्यात् तरूणां तु जघन्यतः । दशवर्षसहस्राणि आयुरुत्कर्षतो भवेत् ॥६७॥ इष्टाऽनिष्टाहारलाभाद् वृद्धिहान्यादिमद् यथा । नृवपुश्चेतनं तद्वत्तरूणामपि भाव्यताम् ॥६८॥ मनुष्यदेहे गदयोगतो यथा करादिशोफक्षयविदुतादयः । तथा तरूणामपि रोगसम्भवात् फलादिहान्यादि न चेतनां विनां ॥६९॥ मनुष्यदेहेऽगदयोगतो यथा रोगक्षयांशोपचयादिकं तथा । भुग्नक्षतारोहणकादिभेषजात् वनस्पतीनामपि नो चिदन्तरा ॥७०॥ रसायनादिभोगेन कान्तिवीर्यादिकं यथा । नरदेहे तथा देहे तरूणामपि चिन्त्यताम् ॥७१॥ विशिष्टेष्टखवार्यादि-सेकाद्वीर्यरसादयः । वृद्धि व्रजन्ति वृक्षाणां नान्तरा ज्ञानयोगतः ॥७२॥ अन्तर्वतीनां नारीणां यथा दोहदपूरणात् । पुत्रादिप्रसवस्तद्वत् वृक्षाणामवधार्यताम् ॥७३॥ आहारक्षतरोहण-दोहदवत्त्वान्सचेतनास्तरवः । ज्ञेया यथाऽस्मदादिषु तेषां चैतन्यतो भावः ॥७४॥ जन्मजराव्याधिमृत्यु-प्रमुखाणां निरीक्षणात् । पादपाः सात्मकाः प्रोक्ता मनुष्यादिनिदर्शनात् ॥७५।। घटो जात इति ज्ञानाद् घटादि नेकान्तवान् । समुदितानां हेतुत्वाज्ञातव्यं तन्मनीषिभिः ॥७६॥ सचेतनाः स्युस्तरवः सुयुक्तेः जरादिहेतोः किल चिन्त्यतां तत् । सदागमोक्तेरपि भूमिकाद्याः सचेतनाः शुद्धधियाऽवलोक्याः ॥७७॥ उक्तं युक्तिसुसङ्गतं जिनवरैर्भूम्यादिजीवेषु य-च्चैतन्यं गणधारिभिनिगदितं सूत्रेषु तथ्यं च तत् । पूर्वाचार्यवरैः प्रदर्शितमिदं शास्त्रेषु युक्त्या स्फुटं तद्वाचानुगतेन मन्दमतये किञ्चिन्मया वर्णितम् ॥७८॥ पाठान्तराणि चात्र यथा द्वितीयपद्याद्यपङक्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142