Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 124
________________ (3) उष्णस्पर्शाऽनलादेयः शरीरस्थत्वहेतुना । जीवसंयोगजः स स्या-ज्ज्वरोष्मादिनिदर्शनात् ॥३९॥ आदित्यादेरुष्णभाव आत्मसंयोगसम्भवः । ततो न तैरनेकान्तो भाव्यमेवं मनीषिभिः ॥४०॥ घृताचाहारतो वृद्धे-दर्शनात् सात्मकोऽनलः । दुग्धाद्याहारसंभोगाद् वर्द्ध मानोऽर्भको यथा ॥४१॥ शक्तिप्रभावतो देवानां वपुर्न विलोक्यते । तथापि चेतनावत्स्या-देवं वायौ विचिन्त्यताम् ॥४२॥ यथाऽजनमन्त्रविद्या-सिद्धनृणां वपुर्भवेत् । सचेतनमदृश्यं च वायावेषोपमा मता ॥४३॥ सूक्ष्मपर्यायतो दृश्यं वायौ रूपं तु चक्षुषा । अणुद्वयणुकदृष्टान्ताद् रूपमस्तीति भाव्यताम् ॥४४॥ अन्याऽनपेक्षगन्तृत्वा-दनिलः सात्मको मतः । पुरुषान्तराऽनपेक्ष-गतिभन्महिषादिवत् ॥४५।। तिरश्चीनाऽनियमिताऽपरप्रेरितदिग्गते; । अनिलः सात्मकः प्रोक्तो गजाश्वादिनिदर्शनात् ॥४६॥ न चिन्त्योऽणावनेका-तोऽनुश्रेणिगतिमत्त्वतः । यतो जीवपुद्गलयो -" रनुश्रेणिगति"र्वचः ॥१७॥ वनस्पतिजीवत्वस्थापनम् ।अशोक-जम्बू-बकुलादिवृक्षा बाल्याद्यवस्थापरिणामवत्त्वात् । सचेतना मानुषदेहवत् स्युः विशेषता नो व्यवहारमार्गे ॥४८॥ यथा मनुष्यादिवपुर्विवर्द्ध ते प्रतिक्षणं बाल्ययुवादिभावतः । तथाऽङ्करादिक्रमतो विवृद्धितो देहास्तरूणामपि जीवशालिनः ॥४९॥ स्वचः सर्वप्रकारेणाऽपहारे मृतिदर्शनात् । तरवः सात्मका ज्ञेया गर्दभादिनिदर्शनात् ॥५०॥ शमीप्रपुन्नाटसिद्धे सरकाः सुन्दकास्तथा । बब्बुलागस्त्यामलकी-कड्याद्यास्तरवः स्मृताः ॥५१॥ ज्ञानेनाऽनुगतास्तेषां देहाः स्वापविबोधतः । मनुष्यदेहवत् प्रोक्ता जिनेशैस्तत्त्वदर्शिभिः ॥५२॥ (युग्मम् ) अधोनिखातद्रव्यस्य राशेर्यत् स्वप्ररोहतः । आवेष्टनं तरूणां स्यात् तत्त चैतन्यलक्षणम् ॥५३॥ मेघौ मेघनादेन शिशिरे वायुयोगतः । वटपिप्पलनिम्बादिद्रुमाणां या विकाशता ॥५४॥ सा तु चैतन्ययोगेन नरदेहविकाशवत् । पुत्रजन्मविवाहादि-हर्षाच्चैतन्ययोगतः ॥५५॥ सुगन्धिजलसेकेन चम्पकस्य विकाशिता । पञ्चमस्वरशब्देन शिरीषस्यापि सा मता ॥५६॥ सुरागण्डूषसेकेन चम्पकस्य विकाशिता । कटाक्षेक्षणतः सा स्यात्तिलके चैतन्यसम्भवा ॥५७॥ अङ्गनापादसम्पर्कात् अशोकाख्यद्रुमस्य यः । पल्लवकुसुमोछेदः स चैतन्यनिमित्तकः ॥५८॥ युवत्यालिङ्गनाज्ञया पनसे या विकाशिता । सा सचेतनसम्भूता कामासक्तमनुष्यवत् ॥५९॥ लजालूमुखसङ्कोचः करसम्पर्कयोगजः । सतीवत् परसम्बन्धात् स्याच्चैतन्यनिबन्धनः ॥६०॥ पद्मादिपुष्पाणि विकाशभाञ्जि प्रातस्तथा चन्द्रिकयोत्पलादेः ।। घोषातकीनां च प्रदोषकाले विकाशभावः स तु जीवहेतुः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142