Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 122
________________ विधाय सम्यग् जिनराजत्रन्दनं निधाय चित्ते गुरुनेमिसूरिणम् । प्रणम्य वाणीं जिनराजदेशितां मृदादिजीवेष्विह वच्मि जीवताम् ॥ १॥ शङ्खादिजीवा मनुजावसाना जीवत्वमेषां प्रकटं हि गम्यम् । पृथ्यादिजीवेषु परं कथं स्याज्जीवत्वलिङ्गाऽनवलोकनात्तत् ॥२॥ एतदेव व्यज्यते 1 अथास्तु द्वीन्द्रियादीनां व्यक्तलिङ्गस्य दर्शनात् । जीवत्वं तदभावात्तु पृथ्यादीनां कथं भवेत् ॥३॥ प्रतिष्ठाप्यते - यदि सत्यं तथाप्यस्त्यव्यक्तलिङ्गस्य दर्शनम् । धत्तूरमिश्रमदिरापानमूच्छितजीववत् ॥४॥ आह परः सम्मूच्छिते व्यक्तजीव - लिङ्गदृष्टिर्न विद्यते । तथाप्यव्यक्तश्वासादि-लिङ्गमस्तीति भाव्यताम् ||५|| उच्यते - - Jain Education International परिशिष्ट : १ आचार्य श्रीविजयोदयसूरिप्रणीता स्थावरजीवसिद्धिः -- छेद्यभेद्योपभोग्योत्क्षेप्यघ्रेयस्वाद्यस्पृश्यतः । सचेतनत्वं पञ्चानां भवेच्छ्रङ्गादिसङ्घवत् ॥६॥ काष्ठादिभिरनेकान्तो न चास्तीति विचिन्त्याताम् । उपभोग्याखिलद्रव्ये जीवदेहत्वस्वीकृतेः ॥७॥ तर्वाद्यचित्ता विज्ञेयाः काष्ठादिद्रव्यसंज्ञिनः । अचित्तत्वसचित्तत्व - विशेषोऽयं प्रपञ्च्यते ॥८॥ अशस्त्रोपहतं भ्वादि - कदाचित् स्यात् सचेतनम् । संघातत्वान्मतं पाणि-पादसंघातवद् बुधैः ॥ ९ ॥ शस्त्रेणोपहतं तत्त कदाचिद् भ्वाद्यचेतनम् । शस्त्रोपहतभावेन पाणिपादादिकं यथा ॥ १०॥ पृथ्वीकायजीवस्थापना - 1 लोप पृथ्वीनां देवदत्तशरीरवत् । सात्मता समजातीया कार्योपलम्भतः ॥११॥ पर आह विमोपपृथ्वी कठिनत्वादि लक्षणम् । लक्षणं पुद्गलानां तज्ज्ञेया स्याच्चेतना कुतः १ ॥१२॥ उच्यते -- शरीरमभ्यवृत्तीनां यथास्थनां कठिनात्मता । तथैव भूमिदेहानां चेतनायां न बाधिका ॥१३॥ अव्यक्त चेतनालिङ्गात् तरुणां चेतना यथा । सचित्ता भूस्तथेष्टा नः अव्यक्तादुपयोगतः ॥ १४ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142