Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 121
________________ सटीकजंबूद्वीपसङग्रहणी स्याद्वादपञ्चाननकाननेऽस्मिन् शेते सदा निर्भयभीमवद्यः । ख्यातिः समग्रेच्छति यं वरीतु येनावगाढ जिनशासनञ्च ।।८।। विधाय योगोद्वहनादिरम्यं विधानमुग्रं जिनदेशितं यत् । प्राप्तं पदं प्राग्गणिनामधेय ततः पदं पण्डितनामधेयम् ।।९।। विद्यादिपञ्चपीठा-राधनमाधाय सूरिपदवी च । लब्धा गौतम(सुधर्म)गणभृत्तुल्यः पूज्यस्ततो विबुधैः ॥१०॥ एतेन ये वर्तमाने समये ह्यभूवन् सग्नूळिमा धर्मविचारशून्याः । योगोपधानादिविधामुपेक्ष्य लात्वा स्वय सूरिपदं भजन्ति ॥११।। आनन्दपद्म न भवेच्च धर्मस्तेषां जडानां भवभीवियोगात् । वैशाखनन्दिप्रतिमा भवन्ति जिनेश्वरादेशविलोपकाश्च ॥१२॥ महानिशीथव्यवहारमुख्य-सूत्रप्रकोपाद् भववृद्धिरुग्रा । ततः पुरस्कृत्य जिनेश्वराणामाज्ञां प्रवत वमितीह बोधः ॥१३।। आज्ञाविहीनस्य भवेन्न धर्म आणाइ धम्मुत्ति यदार्षवाक्यम् । आणाइभठ्ठो स तु भठ्ठ एव इदं च तत्त्वं जिनशासने यत् ॥१४॥ ( आज्ञाविहीनः स तु हीन एव ) आज्ञापालनमेव हि जिनेश्वराराधने शुभोपायः । यस्य चेत्यादिवृत्त यदाह हरिभद्रसूरिवरः ॥१५॥ उपलक्षणं चैतत् एवमुपाध्यायादिपदानि योगादिविधानविकलानि । फलमपि तेषां ज्ञेय संसारान्नापरं किञ्चित् ॥१६।। तदध्रिपद्मभ्रमरेण रम्ये राज्ये तदीये नयधर्मनव्ये । श्रीसडग्रहण्या विवृत्तिर्ममेयं गुरूपदेशाद्रचितोदयेन ॥१७॥ विधाय लब्धं विवृति मयेमां पुण्य ततः सिद्धिसुखकहेतुसम्यक्त्वरत्नं लभतां लौ च भव्यत्रजोऽहं जिनधर्मरागम् ॥१८॥ सूत्राद्विरुद्ध किंमपीह जातं प्रयोगतो वाक्यविधानतो वा। मिथ्यास्तु मे दुष्कृतमेतदीय क्षन्तव्यमेतश्च बुधाग्रगण्टौः ॥१९|| अस्पृष्टा काव्यदोषैर्गुणगणमहिता तत्त्वसन्नद्धमाना । वाणीय हारिभद्री केव नयतिवसमन्तभंगी भावा (सुवर्णा) | क्वेयं मे वा वराकी तदपि विवरणे माक्तसोऽस्याः प्रवृत्ता । सिद्धि श्रीनेमिसरेः पदनुतिमहिमामात्रतो नूनमागात् ॥२०॥ ॥ समाता चेयं सङ्ग्रहणीटीका ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142