Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti

Previous | Next

Page 123
________________ अप्कायसचित्तत्ता -1 अत्र परःचेतनालक्षणाऽयोगा-दप्कायोऽस्ति त्वचेतनः । मूत्रादिवदिदं नैव वाच्यं हेतोरसिद्धितः ॥१५|| उच्यतेकललावस्थदेहस्य अधुनोत्पन्नहस्तिनः । सचैतन्यं द्रवत्वं च तोयेऽप्येवं विभाव्यताम् ॥१६॥ आपः सचेतनाः प्रोक्ता गजोपादानवस्तुवत् । शस्त्रानुपहतत्वे च द्रवत्वाद्धेतुतः स्फुटम् ॥१७॥ अनभिव्यक्तचञ्च्वाद्य - सजातावयवं यथा । अण्डके रसमात्रं तद्वदेवाम्भः सचेतनम् ॥१८॥ अण्डकस्थकलललवत् जीवनं सात्मकं भवेत् । शस्त्रानुपहतत्वे च द्रवत्वाद्धेतुतः स्फुटम् ॥१९॥ अचैतन्यानुमाने तु दृष्टान्ते मूत्रकादिके । शस्त्रानुपहतत्वस्य न हेतोरस्ति सम्भवः ॥२०॥ खान्यकायप्रभेदेन शस्त्रं द्विविधमीरितम् । ___यस्य येन विनाशः स्या-च्छस्त्र' तत्तस्य सम्मतम् ॥२१॥ अभ्रादिकविकारेऽत्र स्वत एव प्रपाततः ।। ____ अन्तरिक्षोद्भवं वारि मत्स्यवत् स्यात् सचेतनम् ॥२२॥ खभावतो भूमिखाता-दाविभीवावलोकनात् । सात्मकं जलमिष्टं नो दर्दुरादिकजन्तुवत् ॥२३॥ शीतकाले तडाकादे - जले ऊष्मोपलभ्यते । अल्पबह्वादिभेदेन सचैतन्यनिमित्तकः ॥२४॥ यथा जनानां सन्दोहे बह्वल्पपुरुषान्वयात् । ऊष्मोपलभ्यते तादृक् सचेतनसमुद्भवः ॥२५॥ उष्णस्पर्शी जले शीते उष्णवद्वस्तुयोगजः । औपाधिकोष्णस्पर्शत्वात् नरदेहोष्णता यथा ॥२६॥ शीतकाले जले बाष्प उष्णवद्वस्तुसम्भवः । बाष्पत्वाज्जलसंसिक्त - नरदेहेषु बाष्पवत् ॥२७॥ तैजसोपेतमात्माख्य-मुष्मा बाष्पप्रयोजकम् । निमित्तान्यवियोगेन वस्त्वाख्यातं मनीषिभिः ॥२८॥ ऊषरावकरान्तःस्थ-तेजः संयोगजोष्मणि । ऊष्णस्पर्शत्वहेतुस्ते व्यभिचारी कथं न हिं १ ॥२९॥ एवं तदुत्थबाष्पेऽपि बाष्पत्वं व्यभिचारवत् । इत्यारेका न शक्येह साध्यस्याऽप्यवलोकनात् ॥३०॥ उत्पन्नमृतजीवस्य देहसंयोगजन्यता । तत्राप्यविकला यस्मात् सिद्धान्ते प्रतिपादिता ॥३१॥ ननु मृतानां जीवानां देहाः स्युर्हेतवः कथम् । ऊष्मताबाप्पयोनैवं वाच्यं तादृग्निरीक्षणात् ॥३२॥ दग्धपाषाणखण्डेषु जलध्वस्तानलादपि । ऊष्म बाप्पो यथातद-न्मृतदेहात्तथैव तौ ॥३३॥ ग्रीष्मर्ती बाह्यतापेन तेजसाग्नेस्तु मन्दता । ततो बह्वल्पभावेन शीततेति विचिन्त्यताम् ॥३४॥ शीतस्पर्को जले ज्ञेयः तैजसाग्नेस्तु मान्धजः । शीतस्पर्शत्वहेतोर्य-नरदेहस्थशैत्यवत् ॥३५॥ यथा खद्योतदेहस्व प्रकाशो जीवयोगजः । अङ्गारादिप्रकाशोऽयं तथा जीवसमुद्भवः ॥३६॥ प्रकाशपरिणामोऽग्नेः शरीरस्थत्वहेतुना । जीवसंयोगजः खद्यो- तदेहपरिणामवत् ॥३७॥ मृते ज्वराद्यभावेन ज्वरोमा जीवयोगजः । अन्वयव्यतिरेकाभ्या-मानेरेवं विभाव्यताम् ॥३८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142