Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti

Previous | Next

Page 109
________________ सटीक जंबूद्वीपसंग्रहणी अथ वर्षधरनगानां उच्चत्वं वर्णं वर्णयितुमाह । जोयणसमुच्चिट्ठा कणयमया सिहरिचुल्ल हिमवंता । रूपिमहाहिमवंता दुसु उच्चारूप्पकणयमया ||२७|| जोयणसयमुत्ति योजनशतोच्ची, कणयमयत्ति कनकमयौ सिहरिचुल्लहिमवंतत्ति शिखरि चुल्लहिमवन्ती रूप्पिमहाहिमवंतत्ति रूपिमहाहिमवंती दुसु उच्चत्ति द्विशतोच्ची रूपकणयमयत्ति रूप्यकनकमयौ इति पदसञ्चालना । अयं भावः । उदीचीनार्धस्थ ऐरवत हैरण्यवदन्तरालवर्ती शिखरी पूर्वव्यावर्णितस्वरूपो गिरिः योजनशतोच्चः स्वर्णश्च स्वर्णमयः । एवं दाक्षिणात्यार्धस्थो भरतहिमवदन्तरालवर्ती चुल्लहिमवन्नामा पूर्ववर्णितस्वरूपो नगः द्विशतयोजनोच्चः रूप्यमयश्च । एवं हिमवद्धरिवर्षान्तरालवती महाहिमवन्नगः द्विशतयोजनोच्चः कनकमयश्च । चत्तारि जोयणसए उच्चिट्ठो निसढनीलवंतो य । निसढो तवणिज्जमओ वेरुलिओ नीलवंतो य' ||२६|| चत्तारिजोयणसयेत्ति चत्वारिं योजनशतानि उच्चिट्ठोत्ति उच्च: निसढत्ति निषधः, नीलवतोयत्ति नीलवांश्च, निसढोत्ति निषधः तवणिज्जमओत्ति तपनीयमयः, वेरुलिओत्ति वैडूर्य:, नीलवंतो यत्ति नीलवांश्च । इति पदसंघटना । अयं भावः । विदेहदाक्षिणात्य हरिवर्षत्रिदेहान्तरालवर्ती निषेधः प्राक्प्रतिपादितस्वरूपः चतुः शतयोजनोच्चः रक्तस्वर्णमयश्च । विदेहोदीचीनो रम्यग्विदेहान्तरालवर्ती नीलवान् प्रतिपादितस्वरूपः चतुः शतयोजनोच्चः नीलरत्नमयश्च इति । अथ सर्वेषां नगानामविशेषणावगाहत्वं दिदर्शयिषुस्तज्ज्ञापिकां युक्ति दर्शयन्नाह सीमन्धर स्वामिदत्तभवविरहाङ्काङ्कितो भगवान् हरिभद्रसूरिः । सव्वेवि पव्वरा समय खित्तंमि मंदरविहूणा । धरणीतलमुवगाढा उस्सेह चउत्थभायंमि ॥२९॥ सव्वेवित्ति सर्वेऽपि पव्वयरत्ति पर्वताः, समयखित्तंमित्ति समयक्षेत्रे सार्धद्वयद्वीपे मंदरविहूणत्ति मन्दरा मेरवस्तैः विहीना, धरणीतलत्ति घरणीतलं पृथ्व्यां उवगाढत्ति उपगूढा; उस्सेहच उत्थभायंमित्ति उत्सेधचतुर्थभागेन इति पदसघटना ॥ अयं भावः । समयक्षेत्रं कालक्षेत्रं तच्च सार्द्धद्वयद्वीपोदधिद्वयस्वरूपं । न तु कालस्य वर्तनारूपत्वाद् वर्तनायाश्चोत्पादव्ययरूपत्वात् सकलक्षेत्रव्यापित्वं तथाहि गुणपर्यायवद्द्रव्यमिति द्रव्यलक्षणात् तस्य चोत्पादव्ययीव्ययुक्तं सदिति सत्त्वादुत्पादव्यययोश्च नवजीर्णोत्पादरूपवर्त्तनानतिक्रमा सकललोकालोक - व्यापित्वं कालस्य, तत्कथं सार्थद्वयद्वीपसमुद्रद्वयरूपं कालक्षेत्रम् अत्राशाम्बरा स्वमीमांसामांसलता सूचयन्तः स्वेषां तीर्थकृदान्तरोपकारित्वमाविष्कुर्वन्ति । ननु कालाणूनां लोकाकाशप्रदेशमितत्त्वं १ प्राचीनवृत्तावत्र ' नीलव' तगिरि' इति पाठः । ८४ Jain Education International For Private & Personal Use Only wwwwwww www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142