________________
सटीक जंबूद्वीपसंग्रहणी
अथ वर्षधरनगानां उच्चत्वं वर्णं वर्णयितुमाह ।
जोयणसमुच्चिट्ठा कणयमया सिहरिचुल्ल हिमवंता । रूपिमहाहिमवंता दुसु उच्चारूप्पकणयमया ||२७||
जोयणसयमुत्ति योजनशतोच्ची, कणयमयत्ति कनकमयौ सिहरिचुल्लहिमवंतत्ति शिखरि चुल्लहिमवन्ती रूप्पिमहाहिमवंतत्ति रूपिमहाहिमवंती दुसु उच्चत्ति द्विशतोच्ची रूपकणयमयत्ति रूप्यकनकमयौ इति पदसञ्चालना । अयं भावः । उदीचीनार्धस्थ ऐरवत हैरण्यवदन्तरालवर्ती शिखरी पूर्वव्यावर्णितस्वरूपो गिरिः योजनशतोच्चः स्वर्णश्च स्वर्णमयः । एवं दाक्षिणात्यार्धस्थो भरतहिमवदन्तरालवर्ती चुल्लहिमवन्नामा पूर्ववर्णितस्वरूपो नगः द्विशतयोजनोच्चः रूप्यमयश्च । एवं हिमवद्धरिवर्षान्तरालवती महाहिमवन्नगः द्विशतयोजनोच्चः कनकमयश्च । चत्तारि जोयणसए उच्चिट्ठो निसढनीलवंतो य । निसढो तवणिज्जमओ वेरुलिओ नीलवंतो य' ||२६||
चत्तारिजोयणसयेत्ति चत्वारिं योजनशतानि उच्चिट्ठोत्ति उच्च: निसढत्ति निषधः, नीलवतोयत्ति नीलवांश्च, निसढोत्ति निषधः तवणिज्जमओत्ति तपनीयमयः, वेरुलिओत्ति वैडूर्य:, नीलवंतो यत्ति नीलवांश्च । इति पदसंघटना । अयं भावः । विदेहदाक्षिणात्य हरिवर्षत्रिदेहान्तरालवर्ती निषेधः प्राक्प्रतिपादितस्वरूपः चतुः शतयोजनोच्चः रक्तस्वर्णमयश्च । विदेहोदीचीनो रम्यग्विदेहान्तरालवर्ती नीलवान् प्रतिपादितस्वरूपः चतुः शतयोजनोच्चः नीलरत्नमयश्च इति । अथ सर्वेषां नगानामविशेषणावगाहत्वं दिदर्शयिषुस्तज्ज्ञापिकां युक्ति दर्शयन्नाह सीमन्धर स्वामिदत्तभवविरहाङ्काङ्कितो भगवान् हरिभद्रसूरिः ।
सव्वेवि पव्वरा समय खित्तंमि मंदरविहूणा । धरणीतलमुवगाढा उस्सेह चउत्थभायंमि ॥२९॥
सव्वेवित्ति सर्वेऽपि पव्वयरत्ति पर्वताः, समयखित्तंमित्ति समयक्षेत्रे सार्धद्वयद्वीपे मंदरविहूणत्ति मन्दरा मेरवस्तैः विहीना, धरणीतलत्ति घरणीतलं पृथ्व्यां उवगाढत्ति उपगूढा; उस्सेहच उत्थभायंमित्ति उत्सेधचतुर्थभागेन इति पदसघटना ॥ अयं भावः । समयक्षेत्रं कालक्षेत्रं तच्च सार्द्धद्वयद्वीपोदधिद्वयस्वरूपं । न तु कालस्य वर्तनारूपत्वाद् वर्तनायाश्चोत्पादव्ययरूपत्वात् सकलक्षेत्रव्यापित्वं तथाहि गुणपर्यायवद्द्रव्यमिति द्रव्यलक्षणात् तस्य चोत्पादव्ययीव्ययुक्तं सदिति सत्त्वादुत्पादव्यययोश्च नवजीर्णोत्पादरूपवर्त्तनानतिक्रमा सकललोकालोक - व्यापित्वं कालस्य, तत्कथं सार्थद्वयद्वीपसमुद्रद्वयरूपं कालक्षेत्रम् अत्राशाम्बरा स्वमीमांसामांसलता सूचयन्तः स्वेषां तीर्थकृदान्तरोपकारित्वमाविष्कुर्वन्ति । ननु कालाणूनां लोकाकाशप्रदेशमितत्त्वं १ प्राचीनवृत्तावत्र ' नीलव' तगिरि' इति पाठः ।
८४
Jain Education International
For Private & Personal Use Only
wwwwwww
www.jainelibrary.org