________________
सटीकजंबूद्वीपसङग्रहणी
एकैकस्मॅिल्लोकाकाशप्रदेशे एकैकस्य कालाणोरवस्थानादसङ्ख्याता एव कालणयो यदुक्तं नेमिचन ण “लोगागासपएसे इक्किक्के जे ठिया हु इक्किक्कारयणाणं रासीमिव कालाणु असंखदव्वाणि ।। तेषां सूर्यप्रदादसङ्ख्येयानां सम्नीलनान्मृत्पिण्डाद् घट इव समयाख्यः पयोय आविर्भवति इति चेत्तदतीवासमञ्जसं कालस्य षष्ठास्तिकायत्वप्रसङ्गात् तथाहि अस्तीनां प्रदेशानां कायः समुदायः अस्तिकायः । अत्रापि कालाणूनां प्रदेशानां समयाख्ये स्कन्धे समुदितत्वात् कालस्यास्तिकायस्वापतिः । तथा च असङ्ख्येयाकालाण्वाख्यसमयानां स्कन्धत्वं । तस्य विभागां देशत्वं कालाणोः प्रदेशत्वं च तथा चेष्टव्याघातात् स्ववधाय कृत्योत्थापनं भवतः सञ्जातमिति । किञ्चागमेऽपि कालस्य जीवाजीवस्वरूपत्वमेव व्यवस्थापि । तथा च जीवाभिगमालापकः " किमियं भंते कालोत्ति पवुच्चइ ? गोयमा ! जीवा चेव अजीवा चेवत्ति" तथा चोक्तं न्यायाचार्य महामहोपाध्यायपदाङ्कितैर्य शोविजयवाचकपुङ्गवैः समयस्य क्लप्तद्रव्यपर्यायरू पस्यैव कल्पनात् तथैवाह - द्वचनस्य व्यवस्थितत्वादित्यादि । ननु तथापि पीतविषयस्यामृतोद्गार इतिवत् कालस्य सकललोकालोकव्यापिन्वं भवतामपि सिद्धमिति चेत् , सत्य, इहार्हतमते निश्चयनयव्यवहारनयाभ्युपगमान्न कापि नो हानिः । तथाहि नैश्चयिककालस्य वर्त नारूपत्वाद्र्व्यपर्यायोभयात्मकत्वात् सकललोकालोकव्यापित्वं व्यवहारिककालस्य च सर्वक्रियोपलक्षितत्वं तथा चोक्तं -- “ मेरुप्रदक्षिणानित्यगतयो नृलोके । तत्कृतः कालविभागः” इत्यादि । किश्चार्धतृतीयद्वीपसमुद्रवर्तिभावनवपुराणादिभावे सूर्यचन्द्रक्रियोपलक्षितकालस्य हेतुत्वात्तावदेव समयक्षेत्रं । उक्तञ्च वाचकपुङ्गवः" तत्र चार्धतृतीयद्वीपसमुद्रान्तर्वर्त्तिकालद्रव्यमेव हेतुस्तस्य तद्भावभाविवादित्यादि " । अथ के पुनरर्धतृतीयद्वीपसमुद्राः ? उच्यन्ते, जम्बूद्वीपधातकीखण्डपुष्करार्धाख्यानि सार्धद्वयद्वीपानि लवणकालोदध्यारव्यौ पुनरुदधिद्वयं । जम्बूद्वीपस्वरूपं वर्णितं प्रायं प्राक्, लेशतस्तूत्तरत्र वक्ष्ये । अन्येषां स्वरुपादिग्रन्थान्तरादवसेयं विस्तरभयाच्चात्र न लिखितं । एष्वर्धतृतीयद्वीपेषु ये केऽपि पर्वता:तथाहि तत्र द्वयोः समुद्रयोस्तावत्पर्वतानामभाव एव यद्यपि लवणेऽष्टासु दिक्षु अष्टौ नगा: सन्ति । तत्र चतसृषु दिक्षु वेलन्धरदेवराजस्य चत्वारो नगाः । तथाहि वेलन्धरदेवराजस्य गोथूभस्यावासभृतः प्राच्या गोथूभनामा नगः । एवं दक्षिणस्यां शिवदेवावासः दिग्भागाख्यः । प्रतीच्या शङखानां, स शडखाभिधः । उदीच्यां च मणोसिलावासः दिक्सीमाभिधानः ॥४॥ एवं विदिश्वध्वनुवेलन्धरदेवराजावासभूताश्चत्वारो नगास्तथाहि ऐशान्यामनुवेलन्धरदेवराजस्य ककोर्टकाख्यस्य कको. टकाभिख्यो नगः । एवमाग्नेय्यां कर्दमस्य विद्युत्प्रभाभिधो नगः । एवं नैर्ऋत्यां कैलासस्य कैलासाख्यः । एवं वायव्यां विद्युत्प्रभास्यारुणप्रभाभिधः ॥४॥ तथापि तेषामविवक्षणाद् द्वीपानामेवाचला ग्राहयास्तथाहि - जम्बूद्वीपे तावत्पूर्ववर्णिता एकोनसप्तत्युत्तरद्विशतसडख्याः पर्वताः । धातकीखण्डे द्विगुणिता – अष्टत्रिंशदुत्तरपञ्चशतसङ्ख्या नगा विज्ञेया ईक्षुकारद्वयान्विताः ॥ तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org