Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीक.जं द्वीपसङग्रणी
८७
प्रत्येकं शतयोजनोच्चा, उत्सेधतुर्यो भागश्च पञ्चविंशतियोजनानि ते क्षित्यवगाढाः काञ्चनगिरयः २०० । देवकुरूत्तरकुरुस्था: सीतासीतोदापूर्वापरतटस्था: प्राक्प्रतिपादितस्वरूपा यमकद्वयचित्रयुगलरूपाश्चत्वारो नगा: प्रत्येकं सहस्रयोजनोच्चाः तच्चतुर्थो भागः सार्धद्विशतयोजनानि तावन्ति च पृथ्यवगाढास्ते चत्वारोऽपि प्रत्येकं ४ । अथ चुल्लहिमवच्छिखरिणो भरतैरवतसीमाकारिणी हिमवधैरण्यवद्दाक्षिणात्योदीचीनौ कीर्त्तितस्वरुपी नगी प्रत्येकं शनयोजनोच्चौ उत्सेधतुर्यभागश्च पञ्चविंशति योजनानि पृथिव्यवगाढौ तावुभौ २ । अथ महाहिमवद्रूपिणी हिमवद्धिरण्यवत्सीमाकारिणौ हरिवर्षदक्षिणात्योदीचीनौ प्रतिपादितस्वरूपावचलो प्रत्येकं द्विशतयोजनोच्चावुत्सेधतुर्यभागश्च पञ्चाशद्योजनानि अतस्तावन्ति योजनानि मह्यवगाढौ तावुभौ वर्षधरनगौ २ । अथ निषधनीलवती हरिवर्षरम्यकसीमाकारिणौ विदेहदाक्षिणात्योदीचीनौ गजदन्तनिर्गमौ परिकीर्तितस्वरूपी प्रत्येकं चतुःशतयोजनोच्चौ उच्चत्वचतुर्थभागश्चैकशतयोजनानि अतस्तावन्ति योजनानि पृथिव्यवगाढौ तावुभावपि प्रत्येक वर्षधरनगौ २ । इत्यादिजम्बूद्वीपाष्टषष्टयुत्तरद्विशतसङ्ख्यनगावगाहविचारः । एवं धातकीपुष्कराधयोरपि । अथ षट्सप्तत्युत्तरैकसहस्रनगानामुच्चत्वावगाढत्वविचारः । तयोः प्रत्येकमष्टषष्ठिसख्यानामायतवैताढयानामुच्चत्वमवगाढत्वं च प्रत्येकं पञ्चविंशतियोजनानि सपादषड्योजनानि जम्बूद्वीपायतवैताढयवद् विज्ञेयम् । एवं षत्रिंशदुत्तरैक शतसङ्ख्या आयतवैताढया: । षोडशसडख्यानां वृत्तवैताढयानां जंबूद्वीपवृत्तवैताढयवत् प्रत्येकं सहस्रोयोजनोच्चत्वं सार्धद्विशतयोजनावगाढवं च ज्ञेयम् । चतुःषष्ठिसङ्ख्यानां वक्षस्कारगिरीणां जम्बूद्वीपवक्षस्कारवत् कुलगिर्यन्तिके प्रत्येक चतुःशतयोजनोत्सेधत्वं शतयोजनावगाहश्च नद्यन्तिके च पञ्चशतयोजनोच्छयत्वं सपादशतयोजनावगाढत्वं च वाच्यं ६४ । गन्धमादनादीनां षोडशसङ्ख्यगजदन्तगिरीणां जम्बूद्वीपगजदन्तवत् वर्षधरपर्वतान्तिके प्रत्येकं चतुःशतयोजनोत्सेधत्वं शतयोजनावगाढत्वं च मेन्तिके च पञ्चशतयोजनोच्छ्यत्वं सपादशतयोजनावगाढत्वं च विज्ञेयमिति । अष्टशतसङ्ख्यानां कनकगिरीणां प्रत्येकं जम्बूद्वीपकनकगिरिवत् शतयोजनोच्चत्वं पञ्चविंशतियोजनावगाढत्वं च विज्ञेयम् ८०० । अष्टानां यमकगिरीणां अष्टानां चित्रविचित्रगिरीणां च प्रत्येक जम्बूद्वीपयमकद्वयवच्चित्रद्वयवच्च सहस्रयोजनोच्छ्यत्वं सार्धद्विशतयोजनावगाढत्वं च वाच्यमित्येषां मीलने षोडश नगानां १६ । चतुणां चुल्लहिमवतां चतुर्णां च शिखरिणां जम्बूद्वीपचुलाहिमवच्छिखरीवत् प्रत्येकं शतयोजनोत्सेधः पञ्चविंशति. योजनावगाहश्च ज्ञेयोऽष्टानां नगानामिति ८ । चतुणी महाहिमवतां चतुणां रूपिणां च जम्बूद्वीपमहाहिमवदपिवत्प्रत्येकं द्विशतयोजनोच्छ्यत्वं पञ्चाशद्योजनावगाढत्वं ज्ञेयमष्टानां नगानामिति ८ । चतुणां निषधानां चतुणां नीलवतां च जम्बूद्वीपनिषधनीलवद्वत्प्रत्येकं चतुःशतयोजनोच्छ्यत्वं शतयोजनावगाढत्वं च ज्ञेयमष्टानां नगानामिति ८ । चतुर्णामीक्षुकाराणां भरतयुगलयुगैरवतयुगलयुगान्तरितानां पूर्ववर्णितस्वरूपाणां पञ्चशतयोजनोच्छ्रयत्वं तच्चतुर्थो भागश्च सपादशतयोजनानि अतस्तावन्ति योजनानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142