Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti

Previous | Next

Page 110
________________ सटीकजंबूद्वीपसङग्रहणी एकैकस्मॅिल्लोकाकाशप्रदेशे एकैकस्य कालाणोरवस्थानादसङ्ख्याता एव कालणयो यदुक्तं नेमिचन ण “लोगागासपएसे इक्किक्के जे ठिया हु इक्किक्कारयणाणं रासीमिव कालाणु असंखदव्वाणि ।। तेषां सूर्यप्रदादसङ्ख्येयानां सम्नीलनान्मृत्पिण्डाद् घट इव समयाख्यः पयोय आविर्भवति इति चेत्तदतीवासमञ्जसं कालस्य षष्ठास्तिकायत्वप्रसङ्गात् तथाहि अस्तीनां प्रदेशानां कायः समुदायः अस्तिकायः । अत्रापि कालाणूनां प्रदेशानां समयाख्ये स्कन्धे समुदितत्वात् कालस्यास्तिकायस्वापतिः । तथा च असङ्ख्येयाकालाण्वाख्यसमयानां स्कन्धत्वं । तस्य विभागां देशत्वं कालाणोः प्रदेशत्वं च तथा चेष्टव्याघातात् स्ववधाय कृत्योत्थापनं भवतः सञ्जातमिति । किञ्चागमेऽपि कालस्य जीवाजीवस्वरूपत्वमेव व्यवस्थापि । तथा च जीवाभिगमालापकः " किमियं भंते कालोत्ति पवुच्चइ ? गोयमा ! जीवा चेव अजीवा चेवत्ति" तथा चोक्तं न्यायाचार्य महामहोपाध्यायपदाङ्कितैर्य शोविजयवाचकपुङ्गवैः समयस्य क्लप्तद्रव्यपर्यायरू पस्यैव कल्पनात् तथैवाह - द्वचनस्य व्यवस्थितत्वादित्यादि । ननु तथापि पीतविषयस्यामृतोद्गार इतिवत् कालस्य सकललोकालोकव्यापिन्वं भवतामपि सिद्धमिति चेत् , सत्य, इहार्हतमते निश्चयनयव्यवहारनयाभ्युपगमान्न कापि नो हानिः । तथाहि नैश्चयिककालस्य वर्त नारूपत्वाद्र्व्यपर्यायोभयात्मकत्वात् सकललोकालोकव्यापित्वं व्यवहारिककालस्य च सर्वक्रियोपलक्षितत्वं तथा चोक्तं -- “ मेरुप्रदक्षिणानित्यगतयो नृलोके । तत्कृतः कालविभागः” इत्यादि । किश्चार्धतृतीयद्वीपसमुद्रवर्तिभावनवपुराणादिभावे सूर्यचन्द्रक्रियोपलक्षितकालस्य हेतुत्वात्तावदेव समयक्षेत्रं । उक्तञ्च वाचकपुङ्गवः" तत्र चार्धतृतीयद्वीपसमुद्रान्तर्वर्त्तिकालद्रव्यमेव हेतुस्तस्य तद्भावभाविवादित्यादि " । अथ के पुनरर्धतृतीयद्वीपसमुद्राः ? उच्यन्ते, जम्बूद्वीपधातकीखण्डपुष्करार्धाख्यानि सार्धद्वयद्वीपानि लवणकालोदध्यारव्यौ पुनरुदधिद्वयं । जम्बूद्वीपस्वरूपं वर्णितं प्रायं प्राक्, लेशतस्तूत्तरत्र वक्ष्ये । अन्येषां स्वरुपादिग्रन्थान्तरादवसेयं विस्तरभयाच्चात्र न लिखितं । एष्वर्धतृतीयद्वीपेषु ये केऽपि पर्वता:तथाहि तत्र द्वयोः समुद्रयोस्तावत्पर्वतानामभाव एव यद्यपि लवणेऽष्टासु दिक्षु अष्टौ नगा: सन्ति । तत्र चतसृषु दिक्षु वेलन्धरदेवराजस्य चत्वारो नगाः । तथाहि वेलन्धरदेवराजस्य गोथूभस्यावासभृतः प्राच्या गोथूभनामा नगः । एवं दक्षिणस्यां शिवदेवावासः दिग्भागाख्यः । प्रतीच्या शङखानां, स शडखाभिधः । उदीच्यां च मणोसिलावासः दिक्सीमाभिधानः ॥४॥ एवं विदिश्वध्वनुवेलन्धरदेवराजावासभूताश्चत्वारो नगास्तथाहि ऐशान्यामनुवेलन्धरदेवराजस्य ककोर्टकाख्यस्य कको. टकाभिख्यो नगः । एवमाग्नेय्यां कर्दमस्य विद्युत्प्रभाभिधो नगः । एवं नैर्ऋत्यां कैलासस्य कैलासाख्यः । एवं वायव्यां विद्युत्प्रभास्यारुणप्रभाभिधः ॥४॥ तथापि तेषामविवक्षणाद् द्वीपानामेवाचला ग्राहयास्तथाहि - जम्बूद्वीपे तावत्पूर्ववर्णिता एकोनसप्तत्युत्तरद्विशतसडख्याः पर्वताः । धातकीखण्डे द्विगुणिता – अष्टत्रिंशदुत्तरपञ्चशतसङ्ख्या नगा विज्ञेया ईक्षुकारद्वयान्विताः ॥ तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142