Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti

Previous | Next

Page 94
________________ सटीकजंबूद्वीपसङ्ग्रहणी wwwwwwwww अथ हृदाख्यं नवमं द्वारं गाथापश्चान प्रदर्शयति । महदह छप्पउमाइ कुरुसु दसगंति सालसगं ॥२०॥ ___ महति महान्तः, सहस्रद्विसहस्रयोजनायतत्वात् दहत्ति हूदाः, छत्ति षट् हिमवन-महाहिमवन्-निषध-नीलवद्-रूपि-शिखर्याख्यनगषट्कसंस्थितवात् षट्सलकाः पउमाइत्ति पद्मादयः, पद्ममहापद्मतिगिच्छिकेशरिमहापुण्डरीकपुण्डरीकाभिधाः, कुरुमुत्ति देवकुरूत्तरकुरूसु, दसगंतित्ति निषधादिनीलवन्तादि दशकमिति, सर्वाग्रसङ्ख्यामाह सोलसगति षोडशकमिति । हिमावदादिषु नगेषु पद्मादयः षड्दाः कुरूषु च निषधाद्या दश एकत्रीकृताश्च सर्वे षाडश सङ्ख्या हृदा जबूद्वीपे भवन्तीत्यर्थः । इदमत्र हृदयम् । अत्र जम्बूद्वीपे प्राग्व्यावर्णितहिमवतो मध्यभागे पद्नामा हृदः दशयोजनावगाढः, पूर्वापरसहस्रयोजनायतः, दक्षिणोत्तरपञ्चशत यो जनविशालः, द्वारत्रयभूषितः परितः पद्मवरवेदिकावनखण्डपरिकरितोऽस्ति । तस्य पूर्वपश्चिमदिशोलवणाभिमुखे द्वे द्वारे स्तः । मेरुसन्मुवं चैकं । तानि च प्रत्येकं स्वत्वदिग्विशालत्वाशीतितमभागहीनानि तयथा पूर्वपश्चिमयोहूंदविशालत्वं पञ्चशतयोजनानि तदशातिमो भागः सपादषड्योजनानि तावन्माने च पूर्वपश्चिमद्वारे, मेर साम्मुखीनो हदः सहस्रयोजनविशालः तदशीतितमो भागश्च सार्धद्वादश योजनानि तावन्मानं च उदीच्यं द्वार तानि च वन्द नमालिकायुतानि नदीनिर्गमानि च । यत उक्तं "गिरस्योपरितले हृदः पद्महदाभिधः योजनानि दशोद्विद्धः सहस्रयोजनायतः ॥१॥ शतानि पञ्चविस्तीर्णो वेदि कावनमण्डितः । चतुर्दिशं तोरणाढयत्रिसोपानमनोरमः ॥२॥ अयं च वक्ष्यमाणाश्च महापद्माहूदादयः । सर्वे पूर्वापरायामा दक्षिणोत्तरविस्तृताः ॥३॥" तत्र मध्यभागे षड्वलयसंवलितं श्रियो देश्या आवासस्थानभूतमेकं कमलमस्ति, तप्कयोजनायातविशालं अर्द्धयोजनपृथुलं जलादर्धयोजनोच्च दशयोजनानि जलावगाढं सर्व च तत्स र्धदशयोन - नोच्चं परितो जगतो परिकरितम् । जगती जगतीगवाक्षादिवर्णनं जंबूद्वीपजगतावत्तच्चान्यत्र जिज्ञासुग द्रष्टव्य, विस्तम्भयादत्रालिखितत्वात् , वक्ष्यते किञ्चिदुत्तरत्र । नवरमयं विशेषः जंबुद्वीपप्राकारोऽष्ट वेव योजनान्युच्चः । अ त्योऽयं तु दशयोजनानि जलावग ढः अष्टौ योजनानि च जलादु ततः स. ङ्ख्ययाऽष्टादश योजनान्युच्च. यत्तु जंबूद्वीपप्रज्ञप्तिमूलसूत्र-जंबुद्वीप जगइपमाण" इत्युक्त तज्जलावगाहप्रमाणमविवक्षितत्वैवेति तवृत्तौ । वज्रमयमूलं रिष्टरत्नमयकंदं वैडूरं रत्नमयनालं वैडूर्यरत्नमय बाह्यपत्रं जाम्बूनदाभ्यन्तरपत्रं । अत्रायं विशेषो बृहत्क्षेत्रवृत्यादौ बाह्यानि चत्वारि पर्णानि वैडूर्यमयानि शेषाणि तु रक्तसुर्वणमयानि उक्तानि । अपि च जंबुद्वीवपन्नत्तीसूत्रे जाम्बूनदं इषद्रक्तस्वर्ण तन्मयाभ्यन्सरपत्राणि । सिरिनिलयक्षेत्रविचारवृत्तौ पीतस्वर्णमयान्युक्तानीति ज्ञेयम् । रक्तस्वर्णमयकेशरं विविधमणिमयबोज अर्धयोजनायतविशालैकक्रोशोच्चकनकमयकर्णिकं । यत उक्त Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142