________________
सटीकजंबूद्वीपसङ्ग्रहणी
wwwwwwwww
अथ हृदाख्यं नवमं द्वारं गाथापश्चान प्रदर्शयति ।
महदह छप्पउमाइ कुरुसु दसगंति सालसगं ॥२०॥ ___ महति महान्तः, सहस्रद्विसहस्रयोजनायतत्वात् दहत्ति हूदाः, छत्ति षट् हिमवन-महाहिमवन्-निषध-नीलवद्-रूपि-शिखर्याख्यनगषट्कसंस्थितवात् षट्सलकाः पउमाइत्ति पद्मादयः, पद्ममहापद्मतिगिच्छिकेशरिमहापुण्डरीकपुण्डरीकाभिधाः, कुरुमुत्ति देवकुरूत्तरकुरूसु, दसगंतित्ति निषधादिनीलवन्तादि दशकमिति, सर्वाग्रसङ्ख्यामाह सोलसगति षोडशकमिति । हिमावदादिषु नगेषु पद्मादयः षड्दाः कुरूषु च निषधाद्या दश एकत्रीकृताश्च सर्वे षाडश सङ्ख्या हृदा जबूद्वीपे भवन्तीत्यर्थः । इदमत्र हृदयम् । अत्र जम्बूद्वीपे प्राग्व्यावर्णितहिमवतो मध्यभागे पद्नामा हृदः दशयोजनावगाढः, पूर्वापरसहस्रयोजनायतः, दक्षिणोत्तरपञ्चशत यो जनविशालः, द्वारत्रयभूषितः परितः पद्मवरवेदिकावनखण्डपरिकरितोऽस्ति । तस्य पूर्वपश्चिमदिशोलवणाभिमुखे द्वे द्वारे स्तः । मेरुसन्मुवं
चैकं । तानि च प्रत्येकं स्वत्वदिग्विशालत्वाशीतितमभागहीनानि तयथा पूर्वपश्चिमयोहूंदविशालत्वं पञ्चशतयोजनानि तदशातिमो भागः सपादषड्योजनानि तावन्माने च पूर्वपश्चिमद्वारे, मेर साम्मुखीनो हदः सहस्रयोजनविशालः तदशीतितमो भागश्च सार्धद्वादश योजनानि तावन्मानं च उदीच्यं द्वार तानि च वन्द नमालिकायुतानि नदीनिर्गमानि च । यत उक्तं
"गिरस्योपरितले हृदः पद्महदाभिधः योजनानि दशोद्विद्धः सहस्रयोजनायतः ॥१॥ शतानि पञ्चविस्तीर्णो वेदि कावनमण्डितः । चतुर्दिशं तोरणाढयत्रिसोपानमनोरमः ॥२॥ अयं च वक्ष्यमाणाश्च महापद्माहूदादयः । सर्वे पूर्वापरायामा दक्षिणोत्तरविस्तृताः ॥३॥"
तत्र मध्यभागे षड्वलयसंवलितं श्रियो देश्या आवासस्थानभूतमेकं कमलमस्ति, तप्कयोजनायातविशालं अर्द्धयोजनपृथुलं जलादर्धयोजनोच्च दशयोजनानि जलावगाढं सर्व च तत्स र्धदशयोन - नोच्चं परितो जगतो परिकरितम् । जगती जगतीगवाक्षादिवर्णनं जंबूद्वीपजगतावत्तच्चान्यत्र जिज्ञासुग द्रष्टव्य, विस्तम्भयादत्रालिखितत्वात् , वक्ष्यते किञ्चिदुत्तरत्र । नवरमयं विशेषः जंबुद्वीपप्राकारोऽष्ट वेव योजनान्युच्चः । अ त्योऽयं तु दशयोजनानि जलावग ढः अष्टौ योजनानि च जलादु ततः स.
ङ्ख्ययाऽष्टादश योजनान्युच्च. यत्तु जंबूद्वीपप्रज्ञप्तिमूलसूत्र-जंबुद्वीप जगइपमाण" इत्युक्त तज्जलावगाहप्रमाणमविवक्षितत्वैवेति तवृत्तौ । वज्रमयमूलं रिष्टरत्नमयकंदं वैडूरं रत्नमयनालं वैडूर्यरत्नमय बाह्यपत्रं जाम्बूनदाभ्यन्तरपत्रं । अत्रायं विशेषो बृहत्क्षेत्रवृत्यादौ बाह्यानि चत्वारि पर्णानि वैडूर्यमयानि शेषाणि तु रक्तसुर्वणमयानि उक्तानि । अपि च जंबुद्वीवपन्नत्तीसूत्रे जाम्बूनदं इषद्रक्तस्वर्ण तन्मयाभ्यन्सरपत्राणि । सिरिनिलयक्षेत्रविचारवृत्तौ पीतस्वर्णमयान्युक्तानीति ज्ञेयम् । रक्तस्वर्णमयकेशरं विविधमणिमयबोज अर्धयोजनायतविशालैकक्रोशोच्चकनकमयकर्णिकं । यत उक्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org