________________
६८
सटीक जंबूद्वीपसङ्ग्रहणी
“वैताढ्याद् दक्षिणस्यां चोत्तरस्यां लवणार्णवात् । चतुर्दशाधिकशतं योजनानि कलास्तथा ॥ एकादशातीत्य मध्यखण्डेऽयोध्या पुरी भवेद्यतः । "
ww
त्रिकलाधिकाष्टत्रिंशदुत्तरद्विशतयोजनमानो भरतमध्यखण्डविस्तारः । ततो वयोजनान्ययोध्याया आकृष्टानि, त्रिकालाधिकैकोनत्रिंशदुत्तरद्विशतयोजनान्यवशिष्टानि । ततः तत्सङ्ख्यार्धभागो वैताढ्याभिमुखः, अर्धश्चलवणाम्बुध्यभिमुख अतस्तावत् सङ्ख्याक योजनान्यन्तरम् । एवमैरवते उत्तरार्धैवताभिलापेन वाच्यं परं स्वस्वविजयनामाभिध आद्यश्चक्री भवति यथा भरते भरताभिधः [ तथैरवत ] ऐवताभिधश्चक्रीत्यादिः । एवं महाविदेहे द्वात्रिंशत्सङ्ख्यका विजयाः । तद्यथा - मेरोर्मद्रशालवनात् पूर्वपश्चिमयोर्दिशोः प्रत्येकं द्वौ द्वौ विजयौ सीतासीतोदान्तरितौ एवं प्रतीभ्यां षोडश, प्राच्यां च षोडश । एवं द्वात्रिंशत्सङ्ख्या विजयास्ते च प्रत्येकं द्वादशोत्तरद्वाविंशत्रिशतयोजनानि सार्धत्रिकोशाधिकानि विशालाः । द्विकलाधिकपञ्चशतद्विनवत्युत्तर षोडश सहस्रयोजनायताः । तन्नामानि चेमानि - "कच्छः १ सुकच्छो २ विज्ञेयः महाकच्छस्तथाविधः ३ ।
कच्छावत्या ४ वर्त्त स्यान् ५ मङ्गलावर्त्त ६ एव च ॥१॥
पुष्कलः सप्तमो ज्ञेयः ७ विज्ञेयः पुष्कलावती ८ ।
वत्सः ९ सुवत्सो दशमः १० महावत्सः ११ ततः परं ॥ २ ॥
वत्सावतो १२ च रम्यश्व १३ रम्यको १४ रमणीयकः १५ ।
मङ्गलावती १६ पद्मश्च ( पक्ष्म) १७ सुपक्ष्मो (सुपद्मो) १८ विजयस्तथा ॥ ३ ॥ महापद्म: ( महाक्ष्मः ) १९ पद्मावती ( पक्ष्मा) २० शङ्खश्व २१ नलिनस्तथा २२ । कुमुदो २३ नलिनावती च २४ वप्रः २५ सुवप्र २६ एव च || ४ || महावप्रो २७ वप्रावती २८ वल्गुरेवं २९ सुवल्गुका ३० । गन्धिलो ३० गन्धिलावती ३२ । द्वात्रिंशदेते विजयाः कच्छाद्याः सृष्टितः क्रमात् ॥५॥
Jain Education International
Searषां नगर्यभिधानानि
" क्षेमा २ क्षेमपुरी २ चैवारिष्टा ३ रिष्टवती पुरी ४ खड्गी ५ चैव मन्जूषा ज्ञातव्या ६ पूस्तथैौषधिः ७ ॥१॥ पुण्डरीकिणी ८ सुसीमा ९ कुण्डला १० चापराजिता ११ प्रभंकरा १२ च ज्ञातव्या अङ्कावत्यभिधा तथा १३ || २ || पद्मावती १४ शुभा १५ चैव नाम्नातो रत्नसञ्चया १६ अश्वपुरी १७ सिंहपुरी १८ ज्ञेया चैव महापुरी १९ ॥ ३ ॥ ततः स्याद्विजयपुरी २० ज्ञातव्या चापराजिता २१ तथा परा २२ स्याच्चाशोका २३ वीतशोका २४ ततः परम् ||४|| विजया २५ वैजयन्ती २६ च जयन्ती २७ चापराजिता २८ चक्रपुरी २९ सङ्खपुरी ३० खङ्गपुरी ३० वन्ध्या ३१ sयोध्या ३२ भवेत्तथा ॥ ५ ॥ | "
एषु विजयनामसंज्ञाश्वक्रिणो भवन्ति यथा कच्छे कच्छ । भिधः । इति विजयाख्यमष्टमं द्वारम् ||
For Private & Personal Use Only
www.jainelibrary.org