SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङग्रहणी ६७ "विज्जाहरसे ढीओ उडुढं गंतूण जोयणं दसओ। दसजोयण-पिहलाओ सेढीओ सक्करायरस ॥ सोमजमका इयाणं देवाणं वरुणका इयाणंच । वेसमणकाइयाणं देवाणं आभियोगाणं ॥ ते च रत्नमया बाह्यतो वृत्ताः अभ्यन्तरतश्च समचतुरस्राः अप्सरःसमूह संकीर्णाः । एवमेक स्मन् वैता ढये चतस्रः श्रेण्यो द्वे विद्याधराणां दाक्षिणात्योदीचीने, द्वे चाभियोगिकानां दाक्षिणात्योदीर्चीने च । तथैव शेषेषु त्रयस्त्रिंशत्सु वैताढयेषु प्रत्येकं चतस्रः चतस्रः श्रेणयः । सर्वसम्मीलने षट्त्रिंशदुत्त कशत सङ्ख्याः श्रेणयो भवन्ति । इति सप्तमं श्रेणिद्वारम् । अथ अष्टमं विजयद्वारं दर्शयति गाथापूर्वार्धन । चक्की जेयव्याई विजयाई इत्थ हुति चउतीसा । चक्रिजेतव्या विजया ( नपुंसकत्वं प्राकृतत्वात् ) अत्र भवन्ति चतुस्त्रिंशत्सङख्याः । अयं भावः । षट् खण्डसाधकाः चतुर्दशरनधारकाः चतुनिकाय देवरत्नप्रभानरकगत्यागताः षोडशसहस्रदेवसेव्याः चक्रवत्तिनो भवन्ति । तत्र षटखण्डाः पूर्वप्रतिपादित स्वरूपाः । चतुर्दशरत्नानि चेमानि । धनुःप्रमाणप्रमितं शत्रशिरच्छेदकं चक्रं नाम प्रथमं रत्नम् । १। चक्रिहस्तस्पर्शाद् द्वादशयोजनविस्तारि वैताढयोत्तर दिग्निवासिम्लेक्षदेवमेधनिरोधकं धनुःप्रमाणप्रमितं छत्रं नाम द्वितीयम् ।२। विषम क्षितिसमकारक सहस्रयोजनाधोभूमिविदारकं धनुःप्रमाणमितं दण्डाख्यं तृतीयम् ।३। चक्रीहस्तस्पर्शादद्वादशयोजनविस्तारि प्रभातोप्त सन्ध्योपभोग्यशालिसम्पादकं चर्मसंज्ञं चतुर्थं द्वहस्तमानमितम् । द्वात्रिंशदङ्गुलमानं रणाग्रात्यन्तशक्तिमत् खड्गाख्यं पञ्चमम् ।५। तिमिस्राखण्डप्रपातामंडल कारकं जात्यसुर्वणमयं चतुग्गुलायतं काकिण्यभिधं षष्ठम् ।६। अधोभागस्थित चर्मरत्नोपरिभागस्थितछत्ररत्नमध्यस्तम्बे स्थापितं सत् द्वादशयोजनप्रकाशकं चतुरङ्गुलायतं द्वगुलविशालं मण्याख्य सप्तमं हस्ते शिरसि वा बद्धं समग्रव्याधिनाशकम् ।७। एतान्येकेन्द्रियरत्नानि आत्माङ्गुलमानमितानि । शान्तिकर्म कारकं पुरोहिताख्यमष्टमम् ।८। महापराक्रमवन्ती अश्वगजाख्ये नवमदशमे ।९-१०। गङ्गासिन्ध्वोः प्रथमपावस्थचतुःस्वण्डसाधकं सेनापनिसंज्ञ एकादशमम्।११। गृहचिन्तकं गृहपत्याख्यं द्वादशमम् ।१२। गेहादिरचयितृवैता ढयगुहास्थोन्मगानिम्नगयोनद्याः पुलबन्धकं वाक्याख्यं त्रयोदशमम् ।१३। अत्यन्तरूपवत् चक्रीभोगयोग्य स्त्रीसंज्ञं चतुर्दशमम् ।१४। एषु चक्रछत्र खड्गदण्डाख्यानि चत्वार्यायुधशालायां जायन्ते, मणिकांकिणीचर्माख्यानि त्रीणि भाण्डागारे उत्पद्यन्ते, गजाश्वौ वैताढय सम्पद्यते । एतानि च प्रत्येकं सहस्रदेवाधिष्ठितानि तथा च चतुर्दशसहस्रदेवाः । चक्रिबाहुयुगलं च द्विसहस्रदेवाधिष्ठितं तथा च सर्वे सम्मील्य षोडशसहस्र देवाश्चक्रिणां सेवन्ते । एतादृशच क्रिजेया विजया भवन्ति । तत्र भरतैरवद्विजयौ वर्णितस्वरूपौ तयोरयोध्यानाम्न्यौ पु? स्तश्चक्रिणां वासयोग्ये | तदर्णनं हि भरते तावत् दक्षिणार्धभरतमध्यखण्डे द्वादशयोजनायता नवयोजनविस्तुता विनिताऽपर संज्ञायोध्याभिधा नगरी । सा च लवणाम्बुघेरेकादशकलाधिकचतुर्दशैकशतयो जनान्तरिता तावद्योजनैश्च वैताढ्यनगादन्तरिता उक्तञ्च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy