________________
सटीकजंबूद्वीपसःग्रहणी
अथ मागधादितीर्थसङ्खयादिदर्शयिषुस्तीर्थस्थाननामपूर्विका तीर्थसङ्ख्यां दिशत्येकगाथया ।
मागहवरदामपभास तित्थ विजएम एरवय भरहे ।
चउतीसा तिहि गुणिया दुरुत्तरसयं तु तित्थाणं ॥१८॥ मागधवरदामप्रभासाख्यानि त्रीणि तीर्थानि प्रत्येकं द्वात्रिंशत्सु . विजयेषु ऐवते भरते चैषा चतुत्रिंशद्विज यसङख्या त्रिभिर्गुणिता द्वयुत्तरशतं तीर्थानां भवति । इदमत्र हृदयं भरतैरवद्विदेहदा. त्रिंशद्विजयाश्चेत्येवं चक्रिचतुस्त्रिंशत्क्षेत्राणि । तत्र भरतैरवनयागङ्गासिन्धुरक्तारक्तवत्योऽम्भोधि
सङ्गच्छन्ति यत्र, तथा द्वात्रिंशद्विजयनद्यः सीतासं तोदे च सङ्गच्छन्ति यत्र, तत्सागरसङ्गमाख्यं उत्तम स्थानमभिधीयते । तत्र दक्षिणार्धभरते प्राचीनं मागाधाख्यं तीथं १ प्रत्तीचीनं च प्रभासाख्यं २ तयोरन्तराले वरदामाख्यं ३ स्वस्वनामाङ्कितदेवाधिष्ठितत्वेनैतानि शाश्वताभिधानानि । तेषां च देवानां स्वस्वतीर्थतः द्वादशसु योजनेषु लवणाम्बुधो राजधान्यो विभ्राजन्ते । अमून् रथनाभिस्मृगंभसि स्थित्वा कृताष्टमत पाश्चक्री स्वाभिधानलक्षितशर मुदधौ मुक्त्वा जयति । एवं त्रीणि तीर्थानि तथैवोत्तरार्धे रवत विजयादिषु त्रयस्त्रिंशत्सु प्रत्येकं त्रीणि त्राणि तीर्थानि । सर्वसंमीलने द्वयधिकशतसङ्ख्या तीर्थानां भवति ॥ १८ ॥ इति षष्ठं तीर्थद्वारम् ॥
. अथ सप्तम श्रेणिद्वारमेकयार्यया दर्शयति । विजाहर आभियोगी य सेढीओ दुनिदुनियड्ढे ।
इय चउगुण चउतीसा छत्तीससयं तु सेढीणं ॥१९॥ विद्याधरामियोगिकानां श्रेण्यो द्वे द्वे वैताढ्य इति चतुर्गुणाश्चतुस्त्रिंशाः षट्त्रिंशदुत्तरं शतं तु श्रेणीनां भवति । अयं भावः । वैताढ्यनगस्य भूभागादुपरि दशयोजनेषु गतेषु दक्षिणोत्तरपार्श्वयोः दशयोजनविशाले वैताढयसमायाते विद्याधराणां दणी स्तः, परितः पद्मवरवेदिकावनखण्डपरिकरिते रत्नबद्धमहीत । तत्र दाक्षिणात्यायां विद्याधरश्रणौ विद्याधराणां गगनवल्लभप्रमुखानि पञ्चाशन्महानगराणि सन्ति । उदोचीन्यां च विद्याधरश्रेणौ रथनू पुरचकवालादीनि षष्ठिसख्यानि महानगराणि । अयं जंबूद्वीपप्रज्ञप्त्यभिप्रायः ऋषभचरित्रादौ तु दक्षिणश्रेण्यां रथनू पुरचक्रवालादीनि पञ्चाशन्नगराणि, उत्तरश्रेण्यां तु गगनवल्लभादीनि षष्ठिरिति उक्तमिति ज्ञेयम् । द्वयोः श्रेण्योनगरमीलने दशोत्तरैकशतसङ्ख्यानि नगराणि भवन्ति । तेषु राज्यपरिकरयुता महावलवन्तो राजानो भवन्ति । उत्तुङ्गरत्नप्रासादशालिण्वेतेषु वसन्तो विद्याधरेश्वराः स्वर्ग तृणायापि न मन्यन्ते । अथ च विद्याधर श्रेणीभूभागादुपरि दशयोजनेषु गतेषु आभियोगिकदेवानां श्रण्यौ स्तस्त अपि दश दशयोजनविशाले वैताढय. समायते परितः पद्मपरवेदिकावनखण्डपरिकरिते । तत्र व्यन्तरदेवदेवाङ्गनासौधर्मलोकपालाज्ञाकारि किङ्करदेवानां बहव आवासाः । तथाहुः क्षमाश्रमणपादाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org