Book Title: Jambudweeplaghusangrahani Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri Publisher: Jain Granth Prakashan SamitiPage 48
________________ सटीक जंबूद्वीपसङ्ग्रहणी तथाहि रक्तत्रतीरक्तयोरुत्पत्तिस्थानं शिखरिगिरिस्थः पुण्डरीकहूदः, स च विस्तारे पञ्चशती योजनानां, अशीतिभक्तेषु च तेषु सपादषडूयोजनानि लभ्यन्त इति तात्रांस्तयोर्मुखविस्तारः । स्थापना प्राग्वत् । एवं रूप्यकूलानिष्पत्तिभूमी रुक्मिस्थो महापुण्डरीकहृदः, स च विस्तृतौ सहस्रं योजनानि तेषु चाशीतिभक्तेषु सार्द्धद्वादशयोजनानि प्राप्यन्तेऽतस्तावान् मूलविस्तारः रूप्यकूलायाः । स्थापना रोहितावत् । अथ च नारीकान्तानिर्गमः नीलवन्निष्ठः केसरिद्रहः । अस्य विस्तारस्तिगिञ्छिवद् द्वे सहस्रे योजनानि, अशीतिभक्तेषु तेषु लब्धानि पञ्चविंशतियेोजनानि नारीकान्तामुखव्यासः । स्थापना हरिसलिलावत् । अथ च मेरोरुदीच्यां दक्षिणाभिमुखीनां स्वर्णकूला - नरकान्ता - शीताख्यानां तिसृणां सरितां चत्वारिंशदविभक्ते स्वस्वहूदवस्तारे यद्यदाप्यते तत्तन्मूला वस्तृतिः । तत्र शिखरिस्थः पुण्डरीकहूद: स्वर्ण कूलानिर्गमस्थानं, स च योजनानां पञ्चशती विस्तृतिः, चत्वारिंशद्भक्तेषु तेषु योजनेषु लब्धानि सार्द्धद्वादशयोजनानि इति तावान्स्वर्णकूलामुखविस्तारः । स्थापना रोहितांशात् । अथ च रुक्मिस्थो महापुडरीकहूदः नरकान्तोद्भवास्पदं, तस्य च सहस्रे योजनेषु चत्वारिंशद्भक्तेषु लब्धानि पञ्चविंशतियांजनानि । अतस्तावान्नरकान्तामूलविस्तार: । अत्रापि स्थापना पूर्ववत् । एवं शीतानिर्गमस्थानं नीलवन्निष्ठः केसरिहूदः, स च द्वे सहस्रे योजनानि विस्तृतः ; चत्वारिंशद्भक्तेषु तेषु पञ्चाशयोजनानि लभ्यन्त इति तावांस्तस्यां मुखविस्तारः । स्थापना शीतोदावत् । अत इदमत्राप्यापन्नं " स्वकीयहूद विस्तारेऽशीतिभक्ते यदाप्यते । उत्तराभिमुखीनां सा नदीनां मूलविस्तृतिः ॥१॥ Jain Education International " दक्षिणाभिमुखीनां तु स्वकीयहृदविस्तृतौ । चत्वारिंशद्विभक्तायां यल्लब्धं तन्मिता मता ॥२॥ व्यवस्थेयमुत्तरस्यां सरितां मन्दराचलात् । इदमैदंपर्यं यत्पूर्वस्माद्विपर्ययतेति ॥३॥ 39 २३ wwwwwws सर्वासामपि मूलविस्तारे दशध्ने प्रान्तविस्तारो भवति । यथा गङ्गासिन्वोद्वषष्टि योजनानि द्वौ च कोशौ । एवं रक्तारक्तवत्योरपि ज्ञेयम् । एवं रोहितांशा - रोहिता - स्वर्णकूला - रूप्यकूलाहरिकान्ता - हरिसलिला - नारीकान्ता - नरकान्ता - शीतोदा - शीतानामपि स्वस्वमूलविस्तारं विचिन्त्य प्रतिस्वं प्रान्तविस्तृतिः स्वधियावसेया । एतासां यत्र यत्र यावान् विस्तारः तस्य पञ्चाशत्तमो For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142