Book Title: Jambudweeplaghusangrahani Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri Publisher: Jain Granth Prakashan SamitiPage 50
________________ सटीकजंबूद्वीपसङ्ग्रहणी www जिना: । तावन्तः चक्रवर्त्तिनः तत्सख्याकाः वासुदेवा अर्धचक्रिणः तत्सख्या एवं हलायुधा बलदेवाः । उत्कर्षतस्तु चतुस्त्रिं शतथाधिपाः त्रिंशच्चक्रिणः तावन्तो वासुदेवाः तत्सङ्ख्या रामाश्च । ते सेऽभी भरतैरवतमहाविदेहेष्वेव भवन्ति नान्यत्र तत्रोत्कर्षसङ्ख्यायां भरतैरवतयेोर्युगलं शेषा महाविदेहेषु इत्यादि बहुतरमूहनीयम् । तथा चाभिहितवन्तः पूर्वसूरयः श्रीमन्तस्तत्रभवन्तो जम्बूद्वीपस्वरूपवर्णनाधिकारे Jain Education International “जिनैश्चक्रिभिः सीरिभिः शार्ङ्गिभिश्च चतुर्भिश्चतुर्भिर्जघन्येन युक्तः । सनाथस्तथोत्कर्षतस्तीर्थनाथैश्चतुस्त्रिंशतायं भवेद् द्वीपराजः ॥१॥ चक्रवर्ति बलदेव केशवै त्रिशता परिचितः प्रकर्षतः । भारतैरवतयोर्द्वयं तथा ते परे खलु महाविदेहगाः ||२|| जंबुद्वीपे स्युर्नदीनां शतानि षड्युक्तानि त्रीणि सत्तामपेक्ष्य । षट्त्रिंशन्ते चक्रिभोग्या जघन्यादुत्कर्षेण दे शते सप्ततिश्च ॥३॥ चक्री गङ्गाद्यापगानां मुखस्थाने तानात्ताशेषषट्खण्डराज्यः । व्यावृत्तः सन्नष्टमस्य प्रभावात् साधिष्ठातृनात्मसान्निर्मिमीते ||४|| पाक्षरत्नोद्विशती दशाधिकोत्कर्षेण भोग्यात्र च चक्रवर्त्तिनाम् जघन्यतोऽष्टाभ्यधिकैकविंशतिरेकाक्षरत्नेष्वपि भाव्यतामिदम् ||५|| द्वौ चन्द्र दिनेन्द्राविह परिलसतो दीपकौ सद्मनीव । षट्सप्तत्या समेतं ग्रहशतमभितः कान्तिमात्रिः करोति ॥ पटपञ्चाशच्च लक्षाण्यनिलपथपृथून्निद्र चन्द्रोदयान्त | का श्रेण्याः श्रयन्ति श्रियमतिविततश्रीभ रैर्विश्रुतानि ॥ ६ ॥ एकं लक्षं सहस्राः सततमिह चतुस्त्रिंशदुद्योतहृद्या | न्यूनाः पञ्चाशतोच्चैर्दधति रुचिरतां तारकाकोटिकोटयः १३३९५० ॥ प्रोद्यत्प्रस्वेदविद्वालय इत्र निशि व्योमलक्ष्मी मृगाक्ष्या । रत्यध्यासं विधातुं प्रियतमविधुना गाढमालिङ्गितायाः ||७|| कोटाकोटिपदेन केचन बुधाः कोटिं वदन्त्यत्र यत् । क्षेत्रस्तोकतयावकाशघटना नैषां भवेदन्यथा ॥ अन्ये कोटय एव तारकतते रौत्सेधिके लेः । कोटाकोटिदशां भजन्ति घटिता इत्यचिरे सूरयः 11211 For Private & Personal Use Only २५ www www.jainelibrary.orgPage Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142