________________
सटीकजंबूद्वीपसङ्ग्रहणी
www
जिना: । तावन्तः चक्रवर्त्तिनः तत्सख्याकाः वासुदेवा अर्धचक्रिणः तत्सख्या एवं हलायुधा बलदेवाः । उत्कर्षतस्तु चतुस्त्रिं शतथाधिपाः त्रिंशच्चक्रिणः तावन्तो वासुदेवाः तत्सङ्ख्या रामाश्च । ते सेऽभी भरतैरवतमहाविदेहेष्वेव भवन्ति नान्यत्र तत्रोत्कर्षसङ्ख्यायां भरतैरवतयेोर्युगलं शेषा महाविदेहेषु इत्यादि बहुतरमूहनीयम् । तथा चाभिहितवन्तः पूर्वसूरयः श्रीमन्तस्तत्रभवन्तो जम्बूद्वीपस्वरूपवर्णनाधिकारे
Jain Education International
“जिनैश्चक्रिभिः सीरिभिः शार्ङ्गिभिश्च चतुर्भिश्चतुर्भिर्जघन्येन युक्तः । सनाथस्तथोत्कर्षतस्तीर्थनाथैश्चतुस्त्रिंशतायं भवेद् द्वीपराजः ॥१॥
चक्रवर्ति बलदेव केशवै त्रिशता परिचितः प्रकर्षतः । भारतैरवतयोर्द्वयं तथा ते परे खलु महाविदेहगाः ||२|| जंबुद्वीपे स्युर्नदीनां शतानि षड्युक्तानि त्रीणि सत्तामपेक्ष्य । षट्त्रिंशन्ते चक्रिभोग्या जघन्यादुत्कर्षेण दे शते सप्ततिश्च ॥३॥ चक्री गङ्गाद्यापगानां मुखस्थाने तानात्ताशेषषट्खण्डराज्यः । व्यावृत्तः सन्नष्टमस्य प्रभावात् साधिष्ठातृनात्मसान्निर्मिमीते ||४|| पाक्षरत्नोद्विशती दशाधिकोत्कर्षेण भोग्यात्र च चक्रवर्त्तिनाम् जघन्यतोऽष्टाभ्यधिकैकविंशतिरेकाक्षरत्नेष्वपि भाव्यतामिदम् ||५|| द्वौ चन्द्र दिनेन्द्राविह परिलसतो दीपकौ सद्मनीव । षट्सप्तत्या समेतं ग्रहशतमभितः कान्तिमात्रिः करोति ॥ पटपञ्चाशच्च लक्षाण्यनिलपथपृथून्निद्र चन्द्रोदयान्त | का श्रेण्याः श्रयन्ति श्रियमतिविततश्रीभ रैर्विश्रुतानि ॥ ६ ॥ एकं लक्षं सहस्राः सततमिह चतुस्त्रिंशदुद्योतहृद्या | न्यूनाः पञ्चाशतोच्चैर्दधति रुचिरतां तारकाकोटिकोटयः १३३९५० ॥ प्रोद्यत्प्रस्वेदविद्वालय इत्र निशि व्योमलक्ष्मी मृगाक्ष्या । रत्यध्यासं विधातुं प्रियतमविधुना गाढमालिङ्गितायाः ||७|| कोटाकोटिपदेन केचन बुधाः कोटिं वदन्त्यत्र यत् । क्षेत्रस्तोकतयावकाशघटना नैषां भवेदन्यथा ॥
अन्ये कोटय एव तारकतते रौत्सेधिके लेः । कोटाकोटिदशां भजन्ति घटिता इत्यचिरे सूरयः 11211
For Private & Personal Use Only
२५
www
www.jainelibrary.org