________________
२४
सटीकजंबूद्वीपसङ्ग्रहणी
भागस्तत्र तत्रोद्वेधो वोध्यः। यथा गङ्गासिघ्वोर्मूले अर्धक्रोश उद्वेधः, पर्यन्ते चैक योजनं एकश्च क्रोश: । एवं सर्वासामपि स्वस्त्र विस्तारानुसारेणोद्वेधभावना भाव्या । एतासां सर्वासामपि सरितां कुण्डोद्वेधद्वीपोच्छ्रायद्वीपदेवीभवनपरिमाणादिकं सदृशमेवावसेयम् । एतासु गङ्गासिन्धु-रोहिता -हरिसलिला-शीता-नरकान्ता-स्वर्णकूलाख्याः सप्त नद्यो दक्षिणाभिमुखगामिन्यः । रक्ता-रक्तवती रूप्यकूला-नारीकान्ता-शीतोदा-हरिकान्ता-रोहितांशाभिधाश्च सप्त नद्य उत्तराभिमुस्खगामिन्यः । सिन्धुं विना दक्षिणा दिगाभिन्यः षण्नद्य: गङ्गा-रोता-हरिसलिला-शीता-नरकान्ता स्वर्णकूलाभिधाना: पूर्वाब्धिगामिन्योऽवसेयाः । सिन्धुस्तु प्रत्यगब्धिगामिनी । रक्तानदीमृते उदग्याता या रक्तवती-रूप्यकूला-नारीकान्ता-शीतोदा-हरिकान्ता-रोहितांशानाम्न्यः षण्नद्यः प्रतीच्यम्बुधिगाः । रक्ता च पूर्वाब्धिगेति । स्थापना चेयम् ।'
___अत्र जंबुद्वीपे नवतिः कुण्डानि तानि चैवं विदेहेषु षोडशापाग्विजयाः षोडश चोदग्विजयाः। तत्रापाग्विजयेषु प्रत्येकं गगासिंध्वभिधाने द्वौ द्वौ सरितौ इति द्वात्रिंशत् । एवमुदग्विजयेषु प्रत्येकं रक्तारक्तवत्यभिधाने द्वौ द्वी नद्याविति ता अपि द्वात्रिशत् । एवमेताश्चतुःषष्टिः, तासां च प्रत्येकमेकैकं प्रपातकुण्डं इति तानि चतुःषष्टिः । सप्तवर्षीनदीनामपि एकैकप्रपातकुण्डसद्भावातानि चतुर्दश । द्वादश चान्तर्नदीप्रपातकुण्डानि । सर्वसडख्यया तानि नवतिर्भवन्ति। अयं प्रागुक्तः पर्वतकूटकुण्डनदीसमूहः सर्वोऽपि उभयतो वनाढयपरिकरितो वेदितव्यः । इति नदीद्वारम् ।
इह द्वीपे चतुर्विंशद्विजयानि द्वयुत्तरं शतं तीर्थान्यवसेयानि । तथाहि भरते नाम्नि विजये दक्षिणलवणाम्बुध्युपान्ते गङ्गावताररूपं मागधनामतीर्थम् । एवं सिन्ध्ववतारस्थानं प्रभासनाम, तयोरन्तराले वरदामाभिधमिति त्रीणि तीर्थानि । एवमैरवतेऽपि त्रीणि । द्वात्रिंशति विजयेषु च प्रत्येकं त्रीणि त्रीणि, सर्वसङ्ख्यया द्वयुत्तरं शतमिति तीर्थद्वारम् ।
चतुस्त्रिंशति वैताद येषु प्रत्येकं श्रेणिचतुष्क सद्भावादस्मिन् द्वीपे ताः षटत्रिशं शतं स्युः । तथाहि भरतं द्विधाविभक्ता पूर्वापरायत उभयतो लवणाम्बुध्यवगाटो वक्ष्यमाणस्वरूपो वैताढयाख्योऽचलः । तस्य दक्षिणोत्तरपार्श्वयोः भूभागादुपरि दशसु योजनेषु गतेषूभयतः विद्याधराणां द्वे श्रेण्यौ, ततोऽप्युपरि दशसु योजनेष्वितेष्वन्येऽपि द्वे । एवं एकस्मिन् वैताढये चतस्रः श्रेणयः । एवमैरवते द्वात्रिंशति विजयेषु चेति । एवं च चतुस्त्रिंशति वैताद येषु प्रत्येकं श्रेणीचतुष्कभावात् षट्त्रिंशं शतं श्रेण्यो भवन्ति । इति श्रेणीद्वारम् ।
चक्रवर्त्तिजेयाश्चतुस्त्रिंशद्विजयाः । एवमस्मिन् यथार्थाभिधाने द्वीपे जधन्यतोऽपि चत्वारो १. स्थापनायै द्रष्टव्यश्चित्राङ्को द्वितीयः, पृ. १४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org