________________
२६
सटीक जंबूद्वीपसमहणी
जयति जगति जंबूद्वीपभूमीधवोऽयं सततभितरवाधिद्वीपसामन्तसेव्यः ।
सुरगिरिरयमुच्चैरंशुको नीलचूलः श्रयति कनकदण्डो यस्य राजध्वजत्वम् ।।२।। इत्यलमतिपल्लवितेन प्रकृतमनुश्रियते ॥
____ अथ यथोद्देशं निर्देश इति न्यायात् . प्रथमोपस्थिती प्रथमत्यागे मानाभावाद्वा आदी तावत् खंडापरनामभागस्वरूपं निर्णिनीषुरेकयार्यया खण्डान् बंभणीति
णउअसय खंडाण भरहपमाणेण भाइए लक्खे ।
अहवा णउयसयगुण भरहपमाण हवइ लक्ख ॥३।। णउअसयमिति इहेति शेषः । अस्मिन् जंबूद्वीपे नवत्युत्तरं शतं खण्डानामिति । यत् पूर्वमुक्तं जंबुद्वीपे कियन्त: खंडास्तदर्शयति । अथ नवत्युत्तरं शतं । कथं ज्ञायते ! तत्ज्ञानविधिर्द्विप्रकारतो गाथाया आद्यार्धेन च दर्शयन्नाद्यप्रकारं प्रतिषिप.दायेषुराद्यार्धभागमाह भरहेत्यादि भरहपमाणेनेति भरतप्रमाणेन, भाइएति भाजिते, लक्खेति लक्षे इत्यक्षरगमनिका । अयं भावार्थः ।। अयं तावजंबूद्वीपो लक्षयोजनप्रमाणप्रमितरतस्य षट्कलासहितषड़ विंशतियोजनोत्तरपश्शत्या योजनेन परितप्रमाणेन भाजिते, भवति नवत्युत्तरं शतम् । तथाहि भागकरणप्रकारः । एकत एकलक्षसख्यायाः एकोत्तरं पञ्च बिंदूनि स्थापितव्यानि । स्थापना चेयम् । १०००००। एकतश्च भरतप्रमाणं स्थापितव्यं, स्था. ५२६-६ । अत्र एको भागो लब्धः षड्विशत्युत्तरपञ्चशत्या(५२६) सहस्र सङ्ख्यायाः(१०००) भाजिमया:शेषचतु:सप्तत्युत्तरं चतु:शती(४७४) लब्धा तस्यां शिष्टायां पूर्वसङ् ख़्याया द्वे शून्य अवतरितयोः सत्योश्चतुःशतोत्तरसप्तचत्वारिंशत्सहस्री(४७४००)लब्धा तस्यां षडविंशत्युत्तर पंचशत्या भाजितायां नवतिर्भागा लब्धाः । शिष्टा च षष्टि(६०) सडख्या, ततश्च षष्टिस ख्या(६०) एकोनविंशत्या(१९) गुणिते साधिकचत्वारिंशदेकशतोत्त रैकसहस्रसङ्ख्या(११४० कलानां भवति । ता कलाः पूर्वलब्धनवत्युत्त रैकशतभागस्यापि षट्कलाभिः गुणिताः तावत्सङ्ख्या(११४०) भवति । तथा च न काऽपि शिष्टा भवति कला । एवं च स्थितं नवत्युत्तरशतं खाडानां भङ्गविधिः, स्थापनातोऽवसेयः । तथाहि किञ्च भाज्यभाजकसख्ययोः समत्वे भागकर भनी । अतो जंबुद्वीपप्रमाणस्य एकलक्षस्य(१०००००)योजनानां कला: कार्यास्तथाहि एकयोजनस्य (कोन शितिः(१९ कलास्तथा च एकोनविंशतिलक्षाणि कला: भवन्ति तथा षडविंशत्युत्तरपञ्चशत्या योजनानामपि कलाकरणे नवसहस्रनवशतचतुर्नवतिकला: संपद्यन्ते, तासु षट्सु कलासु प्रक्षिप्तासु दशसहस्र सडख्या भवन्ति कलाः । ताभिः पूर्वोक्ता एकोनविंशतिलक्षसख्या भाजिता सती नवत्युत्त रैकशतं भागो लभ्यते । तावन्तः खण्डाः । प्रकारः स्थापनातोऽवसेयस्तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org