Book Title: Jambudweeplaghusangrahani Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri Publisher: Jain Granth Prakashan SamitiPage 49
________________ २४ सटीकजंबूद्वीपसङ्ग्रहणी भागस्तत्र तत्रोद्वेधो वोध्यः। यथा गङ्गासिघ्वोर्मूले अर्धक्रोश उद्वेधः, पर्यन्ते चैक योजनं एकश्च क्रोश: । एवं सर्वासामपि स्वस्त्र विस्तारानुसारेणोद्वेधभावना भाव्या । एतासां सर्वासामपि सरितां कुण्डोद्वेधद्वीपोच्छ्रायद्वीपदेवीभवनपरिमाणादिकं सदृशमेवावसेयम् । एतासु गङ्गासिन्धु-रोहिता -हरिसलिला-शीता-नरकान्ता-स्वर्णकूलाख्याः सप्त नद्यो दक्षिणाभिमुखगामिन्यः । रक्ता-रक्तवती रूप्यकूला-नारीकान्ता-शीतोदा-हरिकान्ता-रोहितांशाभिधाश्च सप्त नद्य उत्तराभिमुस्खगामिन्यः । सिन्धुं विना दक्षिणा दिगाभिन्यः षण्नद्य: गङ्गा-रोता-हरिसलिला-शीता-नरकान्ता स्वर्णकूलाभिधाना: पूर्वाब्धिगामिन्योऽवसेयाः । सिन्धुस्तु प्रत्यगब्धिगामिनी । रक्तानदीमृते उदग्याता या रक्तवती-रूप्यकूला-नारीकान्ता-शीतोदा-हरिकान्ता-रोहितांशानाम्न्यः षण्नद्यः प्रतीच्यम्बुधिगाः । रक्ता च पूर्वाब्धिगेति । स्थापना चेयम् ।' ___अत्र जंबुद्वीपे नवतिः कुण्डानि तानि चैवं विदेहेषु षोडशापाग्विजयाः षोडश चोदग्विजयाः। तत्रापाग्विजयेषु प्रत्येकं गगासिंध्वभिधाने द्वौ द्वौ सरितौ इति द्वात्रिंशत् । एवमुदग्विजयेषु प्रत्येकं रक्तारक्तवत्यभिधाने द्वौ द्वी नद्याविति ता अपि द्वात्रिशत् । एवमेताश्चतुःषष्टिः, तासां च प्रत्येकमेकैकं प्रपातकुण्डं इति तानि चतुःषष्टिः । सप्तवर्षीनदीनामपि एकैकप्रपातकुण्डसद्भावातानि चतुर्दश । द्वादश चान्तर्नदीप्रपातकुण्डानि । सर्वसडख्यया तानि नवतिर्भवन्ति। अयं प्रागुक्तः पर्वतकूटकुण्डनदीसमूहः सर्वोऽपि उभयतो वनाढयपरिकरितो वेदितव्यः । इति नदीद्वारम् । इह द्वीपे चतुर्विंशद्विजयानि द्वयुत्तरं शतं तीर्थान्यवसेयानि । तथाहि भरते नाम्नि विजये दक्षिणलवणाम्बुध्युपान्ते गङ्गावताररूपं मागधनामतीर्थम् । एवं सिन्ध्ववतारस्थानं प्रभासनाम, तयोरन्तराले वरदामाभिधमिति त्रीणि तीर्थानि । एवमैरवतेऽपि त्रीणि । द्वात्रिंशति विजयेषु च प्रत्येकं त्रीणि त्रीणि, सर्वसङ्ख्यया द्वयुत्तरं शतमिति तीर्थद्वारम् । चतुस्त्रिंशति वैताद येषु प्रत्येकं श्रेणिचतुष्क सद्भावादस्मिन् द्वीपे ताः षटत्रिशं शतं स्युः । तथाहि भरतं द्विधाविभक्ता पूर्वापरायत उभयतो लवणाम्बुध्यवगाटो वक्ष्यमाणस्वरूपो वैताढयाख्योऽचलः । तस्य दक्षिणोत्तरपार्श्वयोः भूभागादुपरि दशसु योजनेषु गतेषूभयतः विद्याधराणां द्वे श्रेण्यौ, ततोऽप्युपरि दशसु योजनेष्वितेष्वन्येऽपि द्वे । एवं एकस्मिन् वैताढये चतस्रः श्रेणयः । एवमैरवते द्वात्रिंशति विजयेषु चेति । एवं च चतुस्त्रिंशति वैताद येषु प्रत्येकं श्रेणीचतुष्कभावात् षट्त्रिंशं शतं श्रेण्यो भवन्ति । इति श्रेणीद्वारम् । चक्रवर्त्तिजेयाश्चतुस्त्रिंशद्विजयाः । एवमस्मिन् यथार्थाभिधाने द्वीपे जधन्यतोऽपि चत्वारो १. स्थापनायै द्रष्टव्यश्चित्राङ्को द्वितीयः, पृ. १४. Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142