Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजंबूद्वीपसग्रहणी
सर्वथाऽसंभवस्यानभिमतत्वात् । किन्तु तथाधिदैविका तशयानुभावात् तेषां श्मश्रुकर्चादीनां श्रामण्यग्रहणादनु अवस्थितिः स्यात् । एवं च सति पुरुषत्वप्रतिपत्तिः सौदर्य च सिद्धयति । यदुक्तं श्रीसमवायाङ्गे-"अवट्ठियकेसमंसुरोमणहे" इति । ओपपातिकेऽपि प्रथमोपाङ्गेऽभिहितं "अवद्विय सुविभक्त च तमंसू" इत्यादि । अभ्यधायि च वीतराग चत्वालिशिकायां "उत्पन्ने केवलज्ञाने नखलोम्नोस्वस्थितिमित्यादि । इत्थं च तासां शाश्वतार्ह प्रतिमानां भावजिनपतिप्रतिरूपतया इम कूर्चादियुक्तिमदेव । भाष्यवृत्तौ तु याऽपगतके शशी 'मुखा श्रामण्यदशोदिता साऽवर्धिष्णुत्वेनाल्पत्वात्तयोरभावविवक्षया । एकैकस्याः प्रतिमायाः पृष्ठतः छत्रधारिणी, पार्श्वतो द्वे द्वे चामरधारिण्यौ, पुरतः पादपतितं घटिताञ्जलिविनयावनते द्वयं द्वयं यक्षभूत कुण्डधारप्रतिमानां बोध्यम् । अत्र देवच्छन्दके घण्टाधूपकडुच्छकानां प्रत्येकमष्टोत्तरशतं, एवं चन्दन कुम्भादोनामपि बोध्यम् । तथाहि
" चंदणकलप्सा १ भिंगारगा २ आयंसगा ३ यथाला य ४ पाईओ ५ सुपइट्ठा ६ मणिगुलिया ७ वायकरगा य ८ ॥ चित्तारयणकरंडग ९ हय १० गय ११ नरकंठगा य १२ चंगेरी १३ । • पडलग १४ सीहासण १५ छत्त १६ चामर १७ सुमग्गय १८ ज्झया य ।"
शेषाष्टकटोपरि स्वस्वदेवानां रात्निकाः प्रासादावतंसकाः क्रोशतुङ्गा अर्धक्रोशविस्तृतायताश्च । इदच जंबूद्वीपप्रज्ञप्तिबृहत्क्षेत्रसमासाभिप्रायेण । वाचकावतंसोमास्वातिकृते जंबूद्वीपसमासे त्वमी प्रासादावतंसकाः क्रोशदैयविस्ताराः किञ्चिन्न्यूनतदुच्छ्रया अभिहिताः सन्ति । तेषां प्रासादानां मध्ये आयामव्यासयोर्धनुषां पञ्चशतानि तदर्धमेदुरा चैकैका महती मणिपीठिका, तासामुपरि रत्नमयं तत्तत्कूटस्वामियोग्यं परिवारासतैः (१) परितः परिकलितं चैकैकं सिंहासनं राजते । तत्र सिंहासने तेषां तेषा कूटानां नायका नाकिना यदा स्वस्वराजधान्या अत्रायान्ति तदा सुखमासते । एषां च सुराणां मेरोरवाच्या असङ्ख्यद्वीपाब्धीनामतिक्रमेऽपरस्मिन् जम्बूद्वीपे यथायथं राजधान्यो राजन्ते । इति भरतवैताढयकूटनवकवर्णनम् । एवं शेषेषु त्रयस्त्रिंशत्सु विजयेषु कूटानि वाच्यानि । नवरं दक्षिगाध मरतोतरार्धभरतकूटयोः स्थाने स्वस्वविजयनामाङ्किते वाच्ये यथा दक्षिणार्धे ग्वत कटोत्तराभैरवत कूटे । इति चतुस्त्रिंशद्वैताढ्यषडधिकशतत्रय सङ्ख्यककूटवर्णनम् । विद्युत्प्रभाख्यनिषधगजदन्ते नवकूटानि तद्यथा मेर्वन्तिके प्रथमं सिद्धायतनकूटं ततोऽनुक्रमं निषधसन्मुखान्यष्टौ कूटानि विद्युत्प्रभ-देवकुरु -पद्म-कनक-सौवस्तिक-सीतोदा-शतज्वल-हर्याख्यानि । तत्र सिद्धायतने सिद्धायतनं कनकसौवस्तिककूटयोः पुष्पमालापरनामकवारिषेणाऽनंदितापरनामकबलाहिकयोदिशाकुमार्योरावासौ शेषेषु स्वस्वाभिख्यदेवावासाः । इति विद्युत्प्रभगजदन्तकूटनवकवर्णनम् । निषधे नवकूटानि तद्यथा सिद्धायतननिषधहरिवर्षपूर्वविदेहहरिधृतिशीतोदापर विदेहरु चकाख्यानि । तत्र सिद्धायतनादिषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142