Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीक जंबूद्वीप सङ्ग्रहणी
च श्रीः प्रतीतैवेति । सर्वेऽपि इमे देवा देव्य एकपल्यायुषः । शेष राजध न्यादिकं प्राग्वत् । एता देव्यः भवनपतिनिकाय जाता अवगन्तव्याः, व्यन्तरीणामुत्कर्षतोऽपि अर्धपल्या युष्कत्वात् । एवमुक्तमाणदेवानां वाच्यम् । इति चुल्ल हिमगिरिकूटैकादश कवर्णनम् ।
६२
अथ शिखरिनग एकादश कूटानि तद्यथा सिद्धायतनकूटं १ शिखरिकूटं २ हैरण्यवतकटं ३ सुवर्णकुला कूटं ४ सुरादेवीकूटं ५ रक्तावर्त्तनकूटं ६ लक्ष्मीकूटं ७ रक्तावत्यावर्त्तनकूटं ८ इलादेवीकूटं ९ ऐवनकूट १० गञ्छिकूटं ११ च । शेषं सिद्धायतनादिप्राग्वत् । इति शिखरि कूटैकादशकवर्णनम् ॥
.
wwwwwww
इत्येषष्टिसख्येषु गिरिषु कूटानां सर्वसङ्ख्या सप्तषष्ठयुत्तर चतुःशतमिता भवति ॥ अथ सर्वसङ्कख्या ज्ञापिकां संक्षिप्तसङ्ख्याम त्रां गाथामा विष्करोति । चउसत्तअद्वनवगेगार सकूडेहिं गुणह जहसंखं । सोलसदुदुगुणयालं दुवे य सगसट्ठीसयचउरो ॥१६॥
च उत्तअटुनवगेगार सकूडे हिंति चतुःसप्ताष्टनव कैकादशकूटैः गुणहत्ति गुणयत जहसंखनि यथा मख्यं सोलसदुदुगुणयालं दुवेयत्ति षोडशद्विद्वये कोनचत्वारिंशद्विकांश्च एवं गुणिते सगसट्ठीसय चउरोत्ति सप्तषष्ठयुत्तरचतुःशतसङ्ख्या कूटानां भवतीति शेषः । इति पदसंचालना क्रियान्वयः । अयं भावः । षोडशप्सङ्ख्यान् पर्वतान् प्रत्येकं चतुः कूटैर्गुणयत । तथा च सति चतुःषष्ठि - डुङ्ख्या षोडशनगकूटानां । द्वौ पर्वतौ यथासङ्ख्यं सप्त सप्त कूटैर्गुणयत तथा च चतुर्दश कूट भवन्ति । द्वौ पर्वताविष्टभिरष्टभिः कूटैः गुणयत एवं च षोडश कूटानि भवन्ति । एकोनचत्वारिंशत्सङ्खयान् गिरीन् नवनवकूटैर्गुणयत एकपञ्चाशदुत्तरत्रिशतसङ्ख्यकानि कूटानि भवन्ति ।
अत्र गुणयतेति प्रेरणायां पञ्चम्यन्तं क्रियापदं तच्च श्रोतॄणां कथञ्चिदनुपयोगवतः
प्रमत्तासम्भवेऽपि वक्ता नोद्वेजितव्यं किन्तु मृदुमधुरमन आल्हाददायिहितकारिवचोभिः शिक्षानिबन्धनैः श्रोतॄणां मनांसि प्रल्हाद्य यथायोग्यं सन्मार्गप्रवृत्तिस्तत्त्व विवृत्तिश्चोपदेष्टव्येति प्रख्यापनार्थं यदवाच्यनेनैव भगवता प्रवचनोपनिषद्वेदिना हरिभद्रसूरिणाऽन्यत्र -
" अणुवत्तणाइ सेहा पायं पार्वति जुग्गयं परमं । स्यपि गुणुक्करिसं उवेइ सोहं मणुगुणं ॥१॥ इत्थ य पमायखलिया पुव्वन्भासेण कस्स व न हुंति । जो तेऽवणेइ सम्मं गुरुत्तणं तस्स सफलेति ॥ २ ॥ को नाम सारहीणं सहुज जो भद्दवाइणो दमए । दुट्ठे वि य जो आसे दमेई तं सारहिं बिंति ॥३॥
इत्यादि । तथा च सर्वसङ्ख्या मीलने सप्तषष्ठयुत्तरचतुः शतसङ्ख्यानि कूटानि भवन्ति । हृदयं यन्त्रकादवसेयं । तच्चेदं यन्त्रकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142