SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सटीक जंबूद्वीप सङ्ग्रहणी च श्रीः प्रतीतैवेति । सर्वेऽपि इमे देवा देव्य एकपल्यायुषः । शेष राजध न्यादिकं प्राग्वत् । एता देव्यः भवनपतिनिकाय जाता अवगन्तव्याः, व्यन्तरीणामुत्कर्षतोऽपि अर्धपल्या युष्कत्वात् । एवमुक्तमाणदेवानां वाच्यम् । इति चुल्ल हिमगिरिकूटैकादश कवर्णनम् । ६२ अथ शिखरिनग एकादश कूटानि तद्यथा सिद्धायतनकूटं १ शिखरिकूटं २ हैरण्यवतकटं ३ सुवर्णकुला कूटं ४ सुरादेवीकूटं ५ रक्तावर्त्तनकूटं ६ लक्ष्मीकूटं ७ रक्तावत्यावर्त्तनकूटं ८ इलादेवीकूटं ९ ऐवनकूट १० गञ्छिकूटं ११ च । शेषं सिद्धायतनादिप्राग्वत् । इति शिखरि कूटैकादशकवर्णनम् ॥ . wwwwwww इत्येषष्टिसख्येषु गिरिषु कूटानां सर्वसङ्ख्या सप्तषष्ठयुत्तर चतुःशतमिता भवति ॥ अथ सर्वसङ्कख्या ज्ञापिकां संक्षिप्तसङ्ख्याम त्रां गाथामा विष्करोति । चउसत्तअद्वनवगेगार सकूडेहिं गुणह जहसंखं । सोलसदुदुगुणयालं दुवे य सगसट्ठीसयचउरो ॥१६॥ च उत्तअटुनवगेगार सकूडे हिंति चतुःसप्ताष्टनव कैकादशकूटैः गुणहत्ति गुणयत जहसंखनि यथा मख्यं सोलसदुदुगुणयालं दुवेयत्ति षोडशद्विद्वये कोनचत्वारिंशद्विकांश्च एवं गुणिते सगसट्ठीसय चउरोत्ति सप्तषष्ठयुत्तरचतुःशतसङ्ख्या कूटानां भवतीति शेषः । इति पदसंचालना क्रियान्वयः । अयं भावः । षोडशप्सङ्ख्यान् पर्वतान् प्रत्येकं चतुः कूटैर्गुणयत । तथा च सति चतुःषष्ठि - डुङ्ख्या षोडशनगकूटानां । द्वौ पर्वतौ यथासङ्ख्यं सप्त सप्त कूटैर्गुणयत तथा च चतुर्दश कूट भवन्ति । द्वौ पर्वताविष्टभिरष्टभिः कूटैः गुणयत एवं च षोडश कूटानि भवन्ति । एकोनचत्वारिंशत्सङ्खयान् गिरीन् नवनवकूटैर्गुणयत एकपञ्चाशदुत्तरत्रिशतसङ्ख्यकानि कूटानि भवन्ति । अत्र गुणयतेति प्रेरणायां पञ्चम्यन्तं क्रियापदं तच्च श्रोतॄणां कथञ्चिदनुपयोगवतः प्रमत्तासम्भवेऽपि वक्ता नोद्वेजितव्यं किन्तु मृदुमधुरमन आल्हाददायिहितकारिवचोभिः शिक्षानिबन्धनैः श्रोतॄणां मनांसि प्रल्हाद्य यथायोग्यं सन्मार्गप्रवृत्तिस्तत्त्व विवृत्तिश्चोपदेष्टव्येति प्रख्यापनार्थं यदवाच्यनेनैव भगवता प्रवचनोपनिषद्वेदिना हरिभद्रसूरिणाऽन्यत्र - " अणुवत्तणाइ सेहा पायं पार्वति जुग्गयं परमं । स्यपि गुणुक्करिसं उवेइ सोहं मणुगुणं ॥१॥ इत्थ य पमायखलिया पुव्वन्भासेण कस्स व न हुंति । जो तेऽवणेइ सम्मं गुरुत्तणं तस्स सफलेति ॥ २ ॥ को नाम सारहीणं सहुज जो भद्दवाइणो दमए । दुट्ठे वि य जो आसे दमेई तं सारहिं बिंति ॥३॥ इत्यादि । तथा च सर्वसङ्ख्या मीलने सप्तषष्ठयुत्तरचतुः शतसङ्ख्यानि कूटानि भवन्ति । हृदयं यन्त्रकादवसेयं । तच्चेदं यन्त्रकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy