________________
सटीकजंबूद्वीपसङ्ग्रहणी
सिद्धायतनादिचुल्ल हमवद्वत् तथाहि सिद्धायतने सिद्धालयः, निषधहरिवर्षपूर्वविदेहापरविहरु चके षु स्वस्वाभिख्यदेवावासाः । हरिसलिलाधृति सीतोदासु स्वस्वाभिख्यदेव्यावासाः । इति निषघकूट नवकवर्णनम् । नीलवति नव कूट नि-सिद्धायतननीलवत्पूर्वविदेहसीता नारीकान्ताकीर्तिदेव्यपरविदेहरम्यकोपदर्शनाख्यानि । शेषं पूर्ववत् इति नीलवकूटनवकवर्णनम् । माल्यवति गजदन्ते नवकूटानि तयथा मेर्वन्तिके सिद्धायतनं ततोऽनुक्रमं नीलवत्स-मुखानि माल्यवदुत्तर कुरु कच्छसागर रजत सीतापणभद्रहरिस्सहाख्यान्यष्टौ कूटानि। तत्र सिद्धायतने सिद्धायतनं सागररजतयोः सुभोगा भोगमा लिन्योदिक्कुमार्योरावासौ, शेषेषु स्वस्वाभिख्य देवावासाः। इति माल्यवत्कूटनवकस्वरूपम् । सुरगिरेनव कूट। नि तथाहि नन्दनवने सिद्धायतनदिक्कुमारिकाप्रासादान्तरेऽष्टौ कूटानि-न्दनवन मेरुनिषधहिमवद्रजतरुचकसागरचित्रवज्राख्यानि । तेषु मेघङ्करी- मेववती-सुमेघा-मेघमालिनो-सुवामा -वत्समित्रावज्रसेना-बलाहिकाख्याष्टदिक्कुमारिकावासाः ।। इमा दिक्कुमारिका उद्धर्वलोकवामिन्य उच्यन्ते, यतस्तासामावासाः समभूतलातः सहस्रयोजनोपरिवर्तिनः । नवमं च बलनामकूटं ईशानकोणे सहस्रयोजनोच्चं नन्दनवनाच्च साधपञ्चशतयोजनोच्चं, तत्र बलनामा देवः परिवसति । इति सुरगिरिनवकूटानि ॥
__ चुल्लहिमवगिरावे कादश कूट।नि-सिद्धायतनचुल्लहिमवद्भातेलागङ्गादर्तनश्रीदेवीरोहितांशादेवी सिन्ध्यावर्तनसुगदेवीहिमवतवैश्रमणदेवाख्यानि । तेषु सिद्धाय नं कूटं पूर्व लवणप्रतीचीनं चुल्लहिमवत्कूटप्राचं नं पञ्चशतयोजनोच्चं पञ्चशतयोजनविस्तीर्णायाममूलं, पादोनचतुःशन्योजनविशालायाममध्यं, सार्धद्विशतयोजनविशालायामोवरिमभागं, साधिकैकाशीत्युत्तरपञ्चदशनानि पक्षेिपमूलं, किञ्चिदूनषडशीत्यधिकैकादशशतानि परिक्षेपमध्यं, किञ्चिदूनै कनवस्य धकसप्तशतानि परिक्षेपोपरिभागं, पद्मवरवेदिकापरिकरितं गोपुच्छसंस्थानसंस्थितं । ततोऽनुक्रमं दशकूटानि तावदायतविशालोच्चैत्त्वपरिक्षेपवन्ति ज्ञेयानि । तत्र सिद्धायतनकूटस्योपरि भास्वरप्रभोः महान् मिद्धालयः । स च पञ्चाशयोजनायामः पञ्चविंशतियोजनविष्कम्भः षट्त्रिंशद्योजनोच्चः प्राच्युदोच्यवाची स्थद्वारत्रयोपशोभितः, तच्चैककं द्वारमष्टाष्टयोजनान्युचं चत्वारि चत्वारि योजनानि विस्तारप्रवेशम् । तत्र सिद्धायतनेऽष्टयोजनविशाला तावदायता चतुर्योजनमेदुरा महती मणिपीठिका विभाति । तदुपरि पाविकाष्ट योजनोच्चो अष्टयोजनविष्कम्भः तावदायत एको देवच्छन्द कस्तत्र च प्रागुक्तवैताढयसिद्धायतनवदष्टोत्तरशतशाश्वतप्रतिमाप्रमुखं प्रतिपत्तव्यम् । शेषाणां दशानामपि कूटानामुपरि ततत्कूटाधिपतिनाऽधिष्ठितसपादैकत्रिंशद्योजनान्युच्चः सार्धद्वाषष्ठियोजनान्यायतः तावद्विशाल चैकैकः प्रासादः शोभते । तत्र चुल्लहिमवद्भरतहैमवतवैश्रमणाख्येषु चतुर्पु कूटेषु तन्नामानो देवा राजन्ते । शेषेषु षट्सु देव्यः । तत्रापि इलासुरादेवीकूटद्वयवासिन्यौ द्वे देव्यो दिक्कुमारिके, गङ्गावर्त्तनसिन्ध्वावर्तनरोहितांशासूर्याख्येषु चतुर्पु तत्तन्नामनद्यधिष्ठात्र्यः, श्रीदेवीकूटे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org