Book Title: Jambudweeplaghusangrahani Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri Publisher: Jain Granth Prakashan SamitiPage 63
________________ सटीकजंबूद्वीपस ग्रहणी किञ्चिदिति शेषः इति पदगमनिका । भावार्थस्तु पूर्वोक्त एव । अत्र कुत्रचिद् विभक्तिव्यत्ययो विभक्तिलोपो लिङ्गव्यत्ययादिश्च प्राकृतत्वादशडक्य एव । ____ अथ गणितपदनामद्वितीयद्वारे गणितपदसङ्ख्यामाविष्करोति । सत्तेवय कोडिसया णउआ छप्पन्नसयसहस्साई । चउणउयं च सहस्सा सयं दिवट्ठ च साहियं ।।९।। गाउअमेगं पनरस धणुसया तह धणूणि पन्नरस । सद्धिं च अंगुलाई जंबुद्दीवस्स गणियपयं ॥१०॥ पूर्वोक्तपरिधिसङग्या विष्कभस्य चतुर्थभागेन गुणिता गणितपदं क्षेत्रफलं भवति । तदेवाह सत्तेवयकोडिसयाणउआ सप्तशतकोटिनवतिः अयं भावः नवत्युत्तरसप्तशतकोटयः, छप्पन्न सयसहस्साईति षट्पञ्चाशत् शतसहस्राणि लक्षाणीति, चउणउयं च सहस्सत्ति चतुर्नवतिसहस्राणि सयंदिवढं शतं द्वयर्धं च साहियंति साधिकं सार्धशतं योजनानामिति शेषः । अधिकपदसूचितं अधिकत्वं दर्शयति गाउयेत्यादि । गाउयमेगाते एका गव्युतिः कोशः । पन्नरसधणुसयंति पञ्चदशशतानि धनूषि तहत्ति तथा पन्नरसत्ति धणुणित्ति पञ्चदश धनृषि सट्ठित्ति षष्टिश्च अंगुलाईति अङ्गलानि, जंबुद्दीवस्सत्ति जंबूद्वीपत्य गणियपयंति गणितपदं इति पद संचालना । भावार्थ: पूर्वोक्त एवेहापि । अथेह वर्षक्षेत्राणि कियन्तीति तृतीयद्वारमाविष्कुर्वन् वर्षाणामभिधानपूर्वकं सख्यां जगादैकगाथापदेन । 'भरवाइ सत्तवासा....... भरहाइत्ति भरतादयः सत्तत्ति सप्त वासत्ति वर्षाः इहेति शेषः । अयं भावः । इह जंबुद्वीपे भरतादयः सप्तवर्षाः क्षेत्राणि । तद्यथा भरतं १ हिमवत्२ हरिवर्ष३ महाविदेहं ४ रम्यक्५ हैरण्यवत्६ ऐरवतं च ७ । उक्तं च स्थानाङ्गटीकायाम् “ भरहे हेमवयंतिय हरिवासंतिय महाविदेहं । रम्मयमेरन्नवयं एरवयं चेव वासाइ ।।" उक्तं चान्यत्र - " भरहेवयत्ति दुगं दुगं हैमवयैरण्णवयरुवं । हरिवातरम्मय दुगं मज्झिविदेहुत्ति सगवासा ॥" ____ महधि भरताभिख्यो देवः सामानिकदेवैस्सह पल्यायुष्कः परिवसति । अतो भरत इति शाश्वतं नाम । "द्वीपस्यास्याथ पर्यन्ते स्थितं दक्षिणगामिनि । नानावस्थं कालचरितं क्षेत्रमीरितम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142