Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti

Previous | Next

Page 77
________________ ५२ सटीकजंबूद्वीपसङ्ग्रहणी mmmmmmmmmmmmm ___ एवमैरवते द्वात्रिंशत्सु विदेहविजयेषु च त्रयस्त्रिंशद्वैताढ्या वर्णनीया। नवरं अत्र गङ्गा सिन्ध्वन्तिके गुहे, तत्र स्वनद्योरन्तिके । इति चतुस्त्रिंशदायतवैताढ्यवर्णनम् । अथ षोडशवक्षस्कारवर्णनम् । इमे वक्षस्कारा एकैकविजयान्तरिताः तथा च पूर्वविदेहेऽष्टौ वक्षस्कारा अपरविदेहेऽपि तावन्तः । इमे वक्षस्काराः कुलगिर्यन्तिके चतुःशतयोजनोच्चाः सोतासीतोदान्तिके च पश्चशतयोजनोच्चाः एतेषामभिधानानि चेमानि तद्यथा चित्रकूटः १ ब्रह्म (व) कूटः २ नलिनीकूटः ३ एकशैलकूटः ४ त्रिकूटः ५ वैश्रमणकूटः ६ अञ्जनाख्यः ७ मातञ्जनाभिधः ८ अङ्कापाती ९ पद्मा (पक्ष्मा)पाती १० आश विषः ११ सुखावहः १२ चन्द्रः १३ सूरः १४ नागः १५ देवश्चेति १६ । अत्रापि स्वस्वनामाङ्किता देवा वसन्ति । इति वक्षस्कारवर्णनम् । __ अथ देवकुरुषु निषधोदीच्यां सीतोदायाः पूर्वपश्चिमकूलयोः सहस्रयोजनोच्चौ सहस्रयोजनायतविस्तीर्णमूलो सार्धसप्तशतयोजनायामविशालमध्यौ पञ्चशतयोजनदीर्घविस्त ोपरिभागी चित्रविचित्रदेवावासौ स्ववर्णकमलसद्भावाच्चित्रविचित्राभिधानौ नगौ स्तः। इति चित्रविचित्रस्वरूपम् । एवमेवोत्तरकुरुषु यमकाभिधौ द्वौ गिरी । नवरं स्वस्वनामदेवावासौ स्ववर्णवत्कमलवन्तौ च । इति यमकद्वय स्वरूपम् । ___अथ उत्तरकुरुषु नीलवन्तपर्वताधः नीलवन्तहदपूर्वपश्चिमपार्श्वयोः प्रत्येकं दश दश कनकगिरयः शतशतयोजनोच्चाः शतयोजनायामविशालामूलाः, मध्ये पश्चसप्ततियोजनाः उपरि पञ्चाशयोजनाः । एवं विंशति कनकनगा । एवं उत्तरकुरुचन्द्ररवतमाल्यवन्तहद पार्श्वयोरपि । एवं सर्वमङ्ख्या शतस ङ्ख्यागिरयः । एते च सर्वेऽपि काञ्चनप्रभपाथोजाश्रयत्वात् काञ्चनाख्या सुराश्रितत्वाच्च कश्चनाख्या ज्ञेयाः । एवं देवकुरुषु चित्रोत्तरस्यां निषधाधः निषधदेवकुरु सुरप्रभसुलसविद्युत्प्रभहदपार्श्वयोरपि प्रत्येकं विंशतिः । सर्वसम्मोलने द्विशतसङ्ख्याः काश्चनगिरयः । इति द्विशतकञ्चनगिरिस्वरूपम्। अथ नीलवदक्षिणस्यां मेरोरुत्तरप्रतीच्यां गंधिलावत्याख्यविजयप्राच्या उत्तर कुरुप्रतीच्यां च गन्धमादनो नामा गजदन्तपर्वतः पीतवर्णोऽस्ति पीतरत्नमयः । “गिरिगंधमायणो पीयओ अपीतकः पीतमणिमय" इति बृहत्क्षेत्रसमासतदृत्तिव चनप्रामाण्यात् । जंबुद्वीपप्रज्ञप्तिसूत्रे तु अयं 'सधरयणमए' इति सर्वात्मना रत्नमय उक्तः । जंबुद्वीपसमासे तु कनकमय उक्त इति नोलवन्तान्तिके चतुःशतयोजनोच्चः पञ्चशतयोजनपृथुलः पश्चान्मात्रया मात्रया यथाक्रमं उच्चत्वे वधमानः, पृथुत्वेन हीयमान मन्दरान्तिके पञ्चशतयोजनोच्चः अमुलासङ्ख्येयभागपृथुलश्च गजदन्ताकृतिभवति । अस्मिन् पर्वते कोष्टाख्यसुगन्धिद्रव्यपुटकादत्युत्तम इष्टतरो गन्धो भवति । तथा गन्धमादनाभिधो देवो महर्धिको वसत्यतस्तन्नाम शाश्चतम् । इति प्रथमो गजदन्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142