________________
५२
सटीकजंबूद्वीपसङ्ग्रहणी mmmmmmmmmmmmm ___ एवमैरवते द्वात्रिंशत्सु विदेहविजयेषु च त्रयस्त्रिंशद्वैताढ्या वर्णनीया। नवरं अत्र गङ्गा सिन्ध्वन्तिके गुहे, तत्र स्वनद्योरन्तिके । इति चतुस्त्रिंशदायतवैताढ्यवर्णनम् । अथ षोडशवक्षस्कारवर्णनम् । इमे वक्षस्कारा एकैकविजयान्तरिताः तथा च पूर्वविदेहेऽष्टौ वक्षस्कारा अपरविदेहेऽपि तावन्तः । इमे वक्षस्काराः कुलगिर्यन्तिके चतुःशतयोजनोच्चाः सोतासीतोदान्तिके च पश्चशतयोजनोच्चाः एतेषामभिधानानि चेमानि तद्यथा चित्रकूटः १ ब्रह्म (व) कूटः २ नलिनीकूटः ३ एकशैलकूटः ४ त्रिकूटः ५ वैश्रमणकूटः ६ अञ्जनाख्यः ७ मातञ्जनाभिधः ८ अङ्कापाती ९ पद्मा (पक्ष्मा)पाती १० आश विषः ११ सुखावहः १२ चन्द्रः १३ सूरः १४ नागः १५ देवश्चेति १६ । अत्रापि स्वस्वनामाङ्किता देवा वसन्ति । इति वक्षस्कारवर्णनम् ।
__ अथ देवकुरुषु निषधोदीच्यां सीतोदायाः पूर्वपश्चिमकूलयोः सहस्रयोजनोच्चौ सहस्रयोजनायतविस्तीर्णमूलो सार्धसप्तशतयोजनायामविशालमध्यौ पञ्चशतयोजनदीर्घविस्त ोपरिभागी चित्रविचित्रदेवावासौ स्ववर्णकमलसद्भावाच्चित्रविचित्राभिधानौ नगौ स्तः। इति चित्रविचित्रस्वरूपम् ।
एवमेवोत्तरकुरुषु यमकाभिधौ द्वौ गिरी । नवरं स्वस्वनामदेवावासौ स्ववर्णवत्कमलवन्तौ च । इति यमकद्वय स्वरूपम् । ___अथ उत्तरकुरुषु नीलवन्तपर्वताधः नीलवन्तहदपूर्वपश्चिमपार्श्वयोः प्रत्येकं दश दश कनकगिरयः शतशतयोजनोच्चाः शतयोजनायामविशालामूलाः, मध्ये पश्चसप्ततियोजनाः उपरि पञ्चाशयोजनाः । एवं विंशति कनकनगा । एवं उत्तरकुरुचन्द्ररवतमाल्यवन्तहद पार्श्वयोरपि । एवं सर्वमङ्ख्या शतस
ङ्ख्यागिरयः । एते च सर्वेऽपि काञ्चनप्रभपाथोजाश्रयत्वात् काञ्चनाख्या सुराश्रितत्वाच्च कश्चनाख्या ज्ञेयाः । एवं देवकुरुषु चित्रोत्तरस्यां निषधाधः निषधदेवकुरु सुरप्रभसुलसविद्युत्प्रभहदपार्श्वयोरपि प्रत्येकं विंशतिः । सर्वसम्मोलने द्विशतसङ्ख्याः काश्चनगिरयः । इति द्विशतकञ्चनगिरिस्वरूपम्।
अथ नीलवदक्षिणस्यां मेरोरुत्तरप्रतीच्यां गंधिलावत्याख्यविजयप्राच्या उत्तर कुरुप्रतीच्यां च गन्धमादनो नामा गजदन्तपर्वतः पीतवर्णोऽस्ति पीतरत्नमयः । “गिरिगंधमायणो पीयओ अपीतकः पीतमणिमय" इति बृहत्क्षेत्रसमासतदृत्तिव चनप्रामाण्यात् । जंबुद्वीपप्रज्ञप्तिसूत्रे तु अयं 'सधरयणमए' इति सर्वात्मना रत्नमय उक्तः । जंबुद्वीपसमासे तु कनकमय उक्त इति नोलवन्तान्तिके चतुःशतयोजनोच्चः पञ्चशतयोजनपृथुलः पश्चान्मात्रया मात्रया यथाक्रमं उच्चत्वे वधमानः, पृथुत्वेन हीयमान मन्दरान्तिके पञ्चशतयोजनोच्चः अमुलासङ्ख्येयभागपृथुलश्च गजदन्ताकृतिभवति । अस्मिन् पर्वते कोष्टाख्यसुगन्धिद्रव्यपुटकादत्युत्तम इष्टतरो गन्धो भवति । तथा गन्धमादनाभिधो देवो महर्धिको वसत्यतस्तन्नाम शाश्चतम् । इति प्रथमो गजदन्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org