________________
सटीकजंबूद्वीपस ग्रहणी
किञ्चिदिति शेषः इति पदगमनिका । भावार्थस्तु पूर्वोक्त एव । अत्र कुत्रचिद् विभक्तिव्यत्ययो विभक्तिलोपो लिङ्गव्यत्ययादिश्च प्राकृतत्वादशडक्य एव । ____ अथ गणितपदनामद्वितीयद्वारे गणितपदसङ्ख्यामाविष्करोति ।
सत्तेवय कोडिसया णउआ छप्पन्नसयसहस्साई । चउणउयं च सहस्सा सयं दिवट्ठ च साहियं ।।९।। गाउअमेगं पनरस धणुसया तह धणूणि पन्नरस ।
सद्धिं च अंगुलाई जंबुद्दीवस्स गणियपयं ॥१०॥ पूर्वोक्तपरिधिसङग्या विष्कभस्य चतुर्थभागेन गुणिता गणितपदं क्षेत्रफलं भवति । तदेवाह सत्तेवयकोडिसयाणउआ सप्तशतकोटिनवतिः अयं भावः नवत्युत्तरसप्तशतकोटयः, छप्पन्न सयसहस्साईति षट्पञ्चाशत् शतसहस्राणि लक्षाणीति, चउणउयं च सहस्सत्ति चतुर्नवतिसहस्राणि सयंदिवढं शतं द्वयर्धं च साहियंति साधिकं सार्धशतं योजनानामिति शेषः । अधिकपदसूचितं अधिकत्वं दर्शयति गाउयेत्यादि । गाउयमेगाते एका गव्युतिः कोशः । पन्नरसधणुसयंति पञ्चदशशतानि धनूषि तहत्ति तथा पन्नरसत्ति धणुणित्ति पञ्चदश धनृषि सट्ठित्ति षष्टिश्च अंगुलाईति अङ्गलानि, जंबुद्दीवस्सत्ति जंबूद्वीपत्य गणियपयंति गणितपदं इति पद संचालना । भावार्थ: पूर्वोक्त एवेहापि ।
अथेह वर्षक्षेत्राणि कियन्तीति तृतीयद्वारमाविष्कुर्वन् वर्षाणामभिधानपूर्वकं सख्यां जगादैकगाथापदेन ।
'भरवाइ सत्तवासा.......
भरहाइत्ति भरतादयः सत्तत्ति सप्त वासत्ति वर्षाः इहेति शेषः । अयं भावः । इह जंबुद्वीपे भरतादयः सप्तवर्षाः क्षेत्राणि । तद्यथा भरतं १ हिमवत्२ हरिवर्ष३ महाविदेहं ४ रम्यक्५ हैरण्यवत्६ ऐरवतं च ७ । उक्तं च स्थानाङ्गटीकायाम्
“ भरहे हेमवयंतिय हरिवासंतिय महाविदेहं । रम्मयमेरन्नवयं एरवयं चेव वासाइ ।।" उक्तं चान्यत्र - " भरहेवयत्ति दुगं दुगं हैमवयैरण्णवयरुवं । हरिवातरम्मय दुगं मज्झिविदेहुत्ति सगवासा ॥" ____ महधि भरताभिख्यो देवः सामानिकदेवैस्सह पल्यायुष्कः परिवसति । अतो भरत इति शाश्वतं नाम । "द्वीपस्यास्याथ पर्यन्ते स्थितं दक्षिणगामिनि । नानावस्थं कालचरितं क्षेत्रमीरितम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org