Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीकजबूद्वीपसडग्रहणी
षष्ठीत्येता: षट् पूर्वावदेहेषु शीतादास्य इव । एवमपरविदेहेष्वपि शीतोदादास्य इव षडन्तनद्यः तथाहि अपागपरविदेहेषु शीतोदा दक्षिणतटे निषधोदीच्यां शीतोदा निषधान्तरालवर्तिन्यः तिस्रा. ऽन्तर्नयः । ताश्चैव सुपक्ष्ममहापक्ष्मविजययुगलमध्यगामिनी तयोर्मयोदाकारिणी क्षीरोदकुंडगनिता क्षीरोदा नाम्न्यन्तनदी प्रथमा । एवं पक्ष्मावतीशंखाख्यविजयद्वन्द्वान्तरालगामिनी तयोमर्यादायां शीतस्रोतःकुण्डसमुद्भूता शीतस्रोताख्या द्वितीया । एवं नलिनकुमुदाभिधानविजययामलमध्यगा तयोः सीम्नि अन्तर्वाहिकुंडप्रभवाऽन्तर्वाहिनी तृतीया इत्यमूस्तिस्रः । एवमुदगपरविंदेहेषु शीतोदोदक्कूले नीलवतोऽपाच्यां शीतोदानीलवदन्तरालगामिन्योऽपि तिस्रः । ताश्चैवं सुवप्रमहावप्राभिधविजययुगलमध्यवाहिनी तयोः सीमाविधायिनी ऊर्मिमालाकुण्डनिर्गतोर्मिमालिनी चतुर्थी । एवं वप्राकतीवलवभिधविजयमिथुनमध्यवर्तिनी तयोर्मर्यादायां गंभीरमालिकुण्डप्रादुर्भूता गम्भीरमालिनी पञ्चमी । एवं सुवल्गुगन्धिलाख्यविजय युगलमध्यगा तयोमर्यादायां फेनमालिकुण्डनिर्गता फेनमालिन्यभिख्यान्तर्नदी षष्ठीत्येवमपरविदेहेष्वपि पण्मिताः । इत्येवं द्वादशान्तनद्यः । एवमेताः षट्सप्ततिः तथा चतुर्दश सप्तवर्षस्थायिन्यो गंगाद्या महानयः इत्येता नवतिर्महानद्यः षट्पञ्चाशत्सहस्राढय चतुर्दशलक्षाभ्यधिको ज्ञेयास्तथाहुः श्रीरत्नशेखरसूरयः स्वक्षेत्रसमासे -
“ अडसयरी महाणईओ बारस अंतरणईउ सेसाओ । परिअरणइओ चउदसलक्खा छप्पण्णसहस्साय ॥” (लघुक्षेत्रसमास, गाथा - ६४)
तत्रभवन्तो मलयगिरयस्तु कच्छविजयगतसिन्धुर्नदीवर्णनाधिकारे क्षेत्रसमासवृत्तौ प्रवेशे च सर्वसङ्ख्यया आत्मना सह चतुर्दशभिर्नदीसहस्रैः समन्विता भवन्तीति वचनप्रबन्धेन महानदीनां न पृथग्ग गनेोते सूचयाञ्चकुः । तथापि द्वादशान्तरनद्योऽतिरिच्यन्त एवेत्यत्र तत्त्वं बहुश्रुतवेद्यमिाते
ध्येयम् ।
केचित्त्वत्र विचारे -
" गाहावइ महानई पवुडा समाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी अट्ठावीसाए सलिलासहस्सेहि समग्गादाहिणेणं सीयं महानई समप्पेइ ” इत्यादि जंबूद्वीपप्रज्ञप्तिवचनात् तथा " नद्यो विजयच्छेदिन्यो रोहितावत् कुण्डाः स्वनामदेवीवासा, अष्टाविंशतिनदीसहस्रानुगाः, प्रत्येकं सर्वसर्वसमा: पंचविंशशतविस्तृता, अर्धतृतीययोजनावगाहा गाहावती पड्कावती"
१. परिवारनद्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.
Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142