SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ सटीकजबूद्वीपसडग्रहणी षष्ठीत्येता: षट् पूर्वावदेहेषु शीतादास्य इव । एवमपरविदेहेष्वपि शीतोदादास्य इव षडन्तनद्यः तथाहि अपागपरविदेहेषु शीतोदा दक्षिणतटे निषधोदीच्यां शीतोदा निषधान्तरालवर्तिन्यः तिस्रा. ऽन्तर्नयः । ताश्चैव सुपक्ष्ममहापक्ष्मविजययुगलमध्यगामिनी तयोर्मयोदाकारिणी क्षीरोदकुंडगनिता क्षीरोदा नाम्न्यन्तनदी प्रथमा । एवं पक्ष्मावतीशंखाख्यविजयद्वन्द्वान्तरालगामिनी तयोमर्यादायां शीतस्रोतःकुण्डसमुद्भूता शीतस्रोताख्या द्वितीया । एवं नलिनकुमुदाभिधानविजययामलमध्यगा तयोः सीम्नि अन्तर्वाहिकुंडप्रभवाऽन्तर्वाहिनी तृतीया इत्यमूस्तिस्रः । एवमुदगपरविंदेहेषु शीतोदोदक्कूले नीलवतोऽपाच्यां शीतोदानीलवदन्तरालगामिन्योऽपि तिस्रः । ताश्चैवं सुवप्रमहावप्राभिधविजययुगलमध्यवाहिनी तयोः सीमाविधायिनी ऊर्मिमालाकुण्डनिर्गतोर्मिमालिनी चतुर्थी । एवं वप्राकतीवलवभिधविजयमिथुनमध्यवर्तिनी तयोर्मर्यादायां गंभीरमालिकुण्डप्रादुर्भूता गम्भीरमालिनी पञ्चमी । एवं सुवल्गुगन्धिलाख्यविजय युगलमध्यगा तयोमर्यादायां फेनमालिकुण्डनिर्गता फेनमालिन्यभिख्यान्तर्नदी षष्ठीत्येवमपरविदेहेष्वपि पण्मिताः । इत्येवं द्वादशान्तनद्यः । एवमेताः षट्सप्ततिः तथा चतुर्दश सप्तवर्षस्थायिन्यो गंगाद्या महानयः इत्येता नवतिर्महानद्यः षट्पञ्चाशत्सहस्राढय चतुर्दशलक्षाभ्यधिको ज्ञेयास्तथाहुः श्रीरत्नशेखरसूरयः स्वक्षेत्रसमासे - “ अडसयरी महाणईओ बारस अंतरणईउ सेसाओ । परिअरणइओ चउदसलक्खा छप्पण्णसहस्साय ॥” (लघुक्षेत्रसमास, गाथा - ६४) तत्रभवन्तो मलयगिरयस्तु कच्छविजयगतसिन्धुर्नदीवर्णनाधिकारे क्षेत्रसमासवृत्तौ प्रवेशे च सर्वसङ्ख्यया आत्मना सह चतुर्दशभिर्नदीसहस्रैः समन्विता भवन्तीति वचनप्रबन्धेन महानदीनां न पृथग्ग गनेोते सूचयाञ्चकुः । तथापि द्वादशान्तरनद्योऽतिरिच्यन्त एवेत्यत्र तत्त्वं बहुश्रुतवेद्यमिाते ध्येयम् । केचित्त्वत्र विचारे - " गाहावइ महानई पवुडा समाणी सुकच्छमहाकच्छविजए दुहा विभयमाणी अट्ठावीसाए सलिलासहस्सेहि समग्गादाहिणेणं सीयं महानई समप्पेइ ” इत्यादि जंबूद्वीपप्रज्ञप्तिवचनात् तथा " नद्यो विजयच्छेदिन्यो रोहितावत् कुण्डाः स्वनामदेवीवासा, अष्टाविंशतिनदीसहस्रानुगाः, प्रत्येकं सर्वसर्वसमा: पंचविंशशतविस्तृता, अर्धतृतीययोजनावगाहा गाहावती पड्कावती" १. परिवारनद्यः Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy