________________
• सटीक जंबूद्वीपसङ्ग्रहणी
wwwwww
I
रक्ता रक्तवती चेति उभे सरिते । हैरण्यवते रूप्यकूला स्वर्णकूलाभिधं नदीयुगलं । रम्यके नरकान्ता नारीकान्ता चेति नदीमिथुनं इतीमा उदक्क्षेत्रस्थपण्महानद्यः । एवमपरविदेहेषु शीतोदा पूर्वविदेहेषु शीता चेति नदीद्वन्द्वं विदेहवत्तिं । एवमेताश्चतुर्दश । परिकरमाश्रित्य भरतवर्त्तिन्यौ गङ्गासिन्धू, ऐरवतस्थे रक्तारक्तवत्यौ चेति चतस्रो नद्यः, प्रत्येकं चतुर्दशसहस्रं परिवारपरिवृत्ताः । हेमवतगाभिन्यौ रोहितारोहितांशिके, हैरण्यत्रतनिवासिन्यौ रूप्यकूलास्वर्णकूले चेति चतसृणां सरितां प्रत्येकं अष्टाविंशतिः सहस्राणि परिवारः प्रतिपादितः । हरिवर्षवर्त्तिन्यौ हरिकान्ताहरिनद्यौ, रम्यकस्थे नरकान्तानारीकान्ते चेति चतस्रो महानद्यः प्रत्येकं षट्पञ्चाशत्सहस्रैः परिवारिताः । अपरविदेहवर्त्तिनी शीतोदा पूर्वविदेहनिवासिनी शीता चेति महानदीद्वयं प्रत्येकं द्वात्रिंशत्सहस्राधिकपञ्चलक्षी परिच्छद परिच्छिन्नं । तथा च भरतेऽष्टाविंशतिसहस्राणि परिवारः २८००० । हेमवते षट्पञ्चाशत्सहस्राणि ५६००० | हरिवर्षे द्वादशसहस्याधिकं लक्षमेकम् १,१२,००० । इत्येवमपाच्यां दिशि षण्णवतिसहस्रया समेतं लक्षमेकम् १,९६,००० । एवमैरवते भरतवदष्टाविंशति सहस्राणि २८००० । हैरण्यवते हैमवतवत् षट्पञ्चाशत्सहस्राणि ५६०००, रम्यके हरिवर्षवद् द्वादशसहस्याधिकं लक्षमेकं ११२००० इत्येत्रमुदीच्यामपि अपाचीवत् षण्णवतिसहस्रया समन्वितं लक्षमेकं १,९६,००० । विदेहेषु च चतुःषष्टिसहस्राणि दश लक्षाश्च नदीनां १०६४००० । एवं च सर्वसङ्ख्यया चतुर्दशलक्षा षट्पञ्चाशत्सहस्राणि १४५६००० सरितामिह द्वीपेऽभिहिता ॥ तथा पूर्वविदेहापाग्विजयेष्वष्टसु प्रत्येकं गङ्गासिन्ध्यभिख्यसरिद्विकभावात् षोडश, एवमपरविदेहेषु अपाग्विजयाष्टकवर्त्तिन्योऽपि तथैव षोडश नद्योऽवसेयाः । एवं पूर्वविदेहोदग्विजयेष्वष्टसु प्रत्येकं रक्तारक्तवत्यभिधनदीयुगलसद्भावात् ता अपि षोडश एवमपरविदेहेषूदग्विजयेष्वष्टस्वपि तथैव षोडश नद्यो द्रष्टव्याः । एवं द्वात्रिंशति विजयेषु चतुःषष्टिर्नद्यः । एवमत्र द्वादश चान्तर्नद्यः तथाहि शीताख्य महानद्या उत्तरकूले उदक्पूर्वविदेहेषु नीलवतो वर्षधरस्यापाग्दिशि शीतानीलवदन्तरालवर्त्तिन्यः तिस्रोऽन्तर्नद्यः । तत्र सुकच्छमहाकच्छविजयद्वयान्तरालवर्त्तिनी तयोः सीमाकारिणी गाहावत कुंडसमुद्भूता गाहावती नामान्तर्नदी प्रथमा । एवं कच्छावत्यावर्त्तविजयभिथुनान्तरिता तन्मर्यादाविधायिनी हृदावतकुंड निर्गता हृदावती नाम्नी द्वितीया । एवं मङ्गलावर्त पुष्कलाख्यविजययुगलान्तर्गामिनी तयोः सीम्नि वेगवकुंड समुत्पन्ना वेगवती तृतीयेत्येतास्तिस्रः । एवं तत्रैवापाग्विदेहेषु शीतापाक्कूले निषधरय वर्षधरस्योदीच्यां निपध्शीतान्तरागामिम्योऽपि तावन्यस्तथाहिं सुवास महावत्साभिख्यविजयद्वन्द्वान्तरिता तयोर्मर्यादायां तप्तकुण्डसंभूता तप्ताख्या चतुर्थी । एवं वत्सावतीरम्यविजयद्विकान्तरालवर्त्तिनी तयोः सीमाविधायिनी मचकुंडनिर्गता मत्ताभिधा पश्चमी । एवं रम्यकरमणीयकाभिधानविजययुगलान्तर्वर्त्तिनी तयो: सीमनि उन्मत्तकुण्डसमुद्भूतोन्मत्ताख्या
१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org