SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसग्रहणी स्तुल्यरूपौ, तिगिञ्छिकेसरिणौ तुल्यौ । एते च यथोत्तर द्विघ्ना बोव्यास्तथाहि पद्मपुण्डरीकाभ्या द्विघ्नौ महापद्ममहापुण्डरीको ततोऽपि द्विघ्नौ तिगिञ्छिकेसरिणाविति । एषां षण्णामपि हृदानां यथाक्रमं षड्देव्यो भवन्ति श्री-ही-धृतिलक्ष्मीबुद्धिकीर्त्यभिधास्तथाहि-पद्मे श्रीः, महापद्मे हीस्तिगिञ्छिौ धृतिः पुण्डरीके लक्ष्मीर्महापुण्डरीके बुद्धिः, केसरिणि कीर्तिश्चेति । पञ्च च देवकुरुवृत्तयो निषध १ देवकुरु २ सुरप्रभ ३ सुलस ४ विद्युत्प्रभाभिधानाः ५ क्रमशः । एवमुत्तरकुरुष्वपि पञ्च यथाक्रमं नीलेवदुत्तरकुरुचन्द्रैरवतमाल्यवदभिधाः । एते दशापि पद्महूदतुल्यरूपा भूमिहृदाभिधया प्रनीयन्ते । एवञ्च 'षट् पर्यतहूदा ज्ञेया दश भूमिहदास्तथा । ___षोडश सङ्ख्यया ह्येते प्रज्ञप्ता जगदीश्वरैः ॥' एवमिह भरतादिषु सप्तसु वर्षेषु सपरीवारा लवणवारिधिगामिन्यश्चतुर्दश महानद्यो भवन्ति । तद्यथा सप्तैता मेरोर्दक्षिणतः सप्त चोत्तरतः तथाहि गङ्गा सिन्धू रोहितांशा रोहिता हरिकान्ता हरिनंदी शीतोदा चैता महासरितः सप्तापाग्दिशि । एवं रक्ता रक्तवती रूप्यकूला स्वर्णकूला नरकान्ता नारीकान्ता शीता चेमाः सप्तोत्तरकाष्ठायाम् । एतासां निर्गमस्थानानि हिमवदादिषड्वर्षधरस्थपद्मादयः षड् हुदाः। तथाहि भरतस्थे गङ्गासिन्धू हैमवतस्था रोहितांशा चेति तिस्रो महानद्यः हिमवत्पर्वतस्थायिपद्माभिधहदान्निर्गताः । एवं हैमवतस्थायिनी रोहिता हरिवर्षगामिनी हरिकान्ता चेति द्वे महासरिते महाहिमवदचलस्थ महापद्महृदनिर्गते । एवं हरिवर्षस्थायिनी हरिनदी, अपरविदेहवर्तिनी शीतोदा चेति उभे महापगे निषधनगवतितिगिञ्छिदसमुत्पन्ने । ऐरवतस्थे रक्ता रक्तवती हैरण्यवतस्था च स्वर्णकूलाभिधा तिस्रोऽपि महानद्यः शिखरिशिखरवर्तिपुण्डरीकहसमुद्भूताः । एवं हैरण्यवतगामिनी रूप्यकूला रम्यकगामिनी नरकान्ता चेति नदीद्वयं रुक्मिनगाश्रितमहापुण्डरीकहूदोद्गतं । एवं रम्यकाश्रिता नारीकान्ता पूर्वविदेहवर्तिनी शीता चेति नदीयामलं नीलवदद्रिस्थकेशरिहदसमुत्पन्नं । एवञ्चैतासां धराधरानाश्रित्य गङ्गासिन्धू रोहितांशा चेति तिस्रो हिमवतः, रोहिता हरिकान्ता चेति युगलं महाहिमवतः, हरि (सलिला) शीतोदा चेति द्वन्द्वं निषधस्य, रक्ता रक्तवती स्वर्णकूला चेति त्रिकः शिखरिणः, रूप्यकूला नरकान्ता चेति मिथुनं रुक्मिणः, नारीकान्ता शीता चेति युगं नीलवतः, इति चतुर्दशानां व्यवस्था । क्षेत्राण्याश्रित्य तु सप्तस्वपि वर्षेषु प्रतिवर्ष द्वयं द्वयं । तत्र षण्णद्यो दक्षिणवर्षेषु, षट्चोदग्वर्षेषु द्वयं च पूर्वापरविदेहेषु तथा च भरते गङ्गा सिन्धुश्चति द्वयं, हैमवते रोहितांशा रोहिता चेति युगलं, हरिवर्षे हरिकान्ता हरि चेति मिथुनं, इत्येता दक्षिणक्षेत्रस्थाः षट् । एवं ऐरवते १ नदीनामित्यर्थः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy