________________
सटीकजंबूद्वीपसमहणी
इत्याधुमास्वातिवाचकवचनाच्च द्वादशानामन्तर्नदीनामपि प्रत्येक अष्टावशितिसहस्ररूपं परिवारं मन्यमानाः षत्रिंशत्सहस्राधिकनदीलक्षत्रयेणान्तर्नदीपरिवारेण सह द्विनवतिसहस्राधिकानि सप्तदशनदीलक्षाणि मन्यन्ते । उक्तञ्च -
" सुत्ते चउदसलक्खा छप्पन्नसहस्स जंबुद्दीवंमि ।
हुति उ सत्तरसलक्खा बाणवइसहस्स मेलविया ॥" ___ अन्ये तु यद्यन्तनदीष्वनेकानि परीवारनदीसहस्राणि प्रवेशेयुस्तदा कथं तासां क्रमेण परतः परतो गच्छन्तीनां विस्तारविशेषो गङ्गासिन्वादिनदीनामिव न संपद्येत ? यस्तु परिवारः सिद्धान्तेऽभिदधे, स तु यथाष्टाशीतिम्रहाश्चन्द्रस्येव परिवारतया प्रसिद्धा अपि सूर्यस्यापि स एव परिवारः प्रतीयते न पुन: पृथक् ॥ उक्तश्च समवायाङ्गवृत्ती --
" अष्टार्शतिर्महाग्रहा एते यद्यपि शीतकरस्यैव परिवारोऽन्यत्र श्रयते तथापि सूर्यस्यापीन्द्रत्वादेत एव परिवारतयावसेया । ” इति तथा गङ्गादिसम्बन्धीन्येवाष्टाविंशतिनदीसहस्राणि अन्तर्नदीनामपि परिवार इति । एवं चान्तर्नदीनां पृथकपरिवारमनपरातो यथास्थितामेव नदीसंख्यां मन्यन्ते इति । दिक्पटोऽप्येवमाह -
" जंबुद्वीवि नवराहिव संखा सव्वनइ चउदहयलक्खा ।
छप्पनं च सहस्सा नव नइओ कहति जिणा ॥१॥ इति सिद्धं जंबुद्वीपनदीनदीपरिवारप्रमाणम् ।
गङ्गासिन्धुरक्तवतीरक्ताख्यानां चतसृणां महानदीनां वक्ष्यमाणं जिहिकामानविरतारोद्वेद्धतादिकं सर्वं परस्परं तुल्यं, ततः रूप्यकूलास्वर्णकूलारोहितारोहितांशिकाख्यानां चतसृणां महानदीनां द्विगुणं जिबिकामानाद्यवसेयं अन्योऽन्यं च सर्वमेव समस्वरूपम् । ततोऽपि नारीकान्तानरकान्ताहरिकान्ताहरिसलिलाह्वयानां तत्सर्वं द्विगुणमभिधातव्यम् । अत्रापि परस्परं तुल्यम् ॥ ततोऽपि शीताशीतोदयोर्द्वयोः प्रागुक्तं सर्वं द्विगुणं वाच्यं मिथश्च तुल्यरूपम् ।।
तत्र सुरगिरेर्दक्षिणस्यां दक्षिणाभिमुखीनां गङ्गासिन्धुरोहिताहरिसलिलाख्यानां चतसृणां सरितामशीतिभक्ते स्वस्वहदविस्तारे यावद्यावन्मानमाप्यते तावत्तावन्मूलविस्तारो बोद्धव्यः तथाहि गङ्गासिन्ध्वोर्निगमस्थानं हिमवत्पर्वतस्थः पद्मनामा हृदः, स च योजनानां पञ्चशती विस्तृतः, अशीतिभक्तेषु च तेषु योजनेषु सपादषड्योजनान्याप्यन्ते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org