Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 41
________________ १६ सटीकजंबूद्वीपसङ्ग्रहणी निर्मितानि । सर्वाण्येतानि सपादषड्योजनोच्चानि, चैत्यप्रासादविभूषितानि वक्ष्यमाणस्वरूपभरत समरूपाणि । सौमनसगन्धमादनगजदन्तयोः सप्त सप्त कूटानि, विद्युत्प्रभमाल्यवतोर्नव नव, मेरोर्नन्दनवने नव, हिमवच्छिखरिणोर्यर्षधरयोरेकादश एकादश, महाहिमवद्रुक्मिणोरष्टावष्ट, निषधनीलवतोर्नव नव, षोडशसु वक्षस्कारेषु प्रत्येकं चत्वारि चत्वारि इत्येतानि चतुःषष्टिः । एतेषु षट्पञ्चाशद्वर्षधरनगकूटानि द्वात्रिंशद् गजदन्तगिरिकूटानि नव मेरुनन्दनवनकूटानि चतुःषष्टिश्च वक्षस्कारकूटानि सर्वाग्रेणैतान्येकषप्टयधिकशतं कूटानि माल्यवद्विद्युत्प्रभमेरुनन्दनस्थहरिस्सहहरिबलकूटवर्जितानि अष्टपञ्चाशं शतं कूटानि । योजनानां पञ्चशती प्रत्येकमुच्चानि रत्ननिर्मितानि वक्ष्यमाणहिमवत्कूटसन्निभानि मिथः समस्वरूपाणि । माल्यवरिस्सहकूटं विद्युत्प्रभहरिकूट मेरुनन्दनबलकूटं च त्रीण्यपि प्रत्येकं सहस्रयोजनोच्छ्रयाणि स्वर्णमयानि य । एवमेतानि सर्यसङ्ख्यया षडधिका त्रिंशती चतुस्त्रिंशदायतवैताढयकूटानां ३०६, द्वाविंशतिर्हिमवच्छिखरिकूटानि २२, षोडश महाहिमवद्रुक्मिकूटानि १६, अष्टादश निषधनीलवत्कूटानि १८, चतुर्दश सौमन. सगन्धमादनगजदन्तकूटानि १४, अष्टादश विद्युत्प्रभमाल्यवद्गजकूटानि १८, नव मेरुनन्दन कूटानि ९ चतुःषष्टिश्च षोडशवक्षस्कार कूटानी ६४ त्येवं सख्येह गिरिकूटानां सप्तषष्टया समन्विता । चतु:शती भवत्येवं प्रज्ञप्तं जगदीश्वरैः ॥' एवं पूर्वापरविदेहद्वात्रिंशति विजयेषु भरतैरवतक्षेत्रयोश्च प्रत्येकमेकैकवृषभकूटसद्भावाच्चतुस्त्रिंशवृषभकूटानि परस्परं समस्वरूपाणि, अष्टौ च मेरोभूमिष्ठभद्रशालवने, अष्टावुत्तरकुरुस्थजम्बूवृक्षे, एवं देवकुरुस्थशाल्मलीवृक्षेऽप्यष्टौ इति । एतानि च सर्वाणि भूमिकूटानि मिथः समरूपाणि । सर्वसङ्ख्याष्टपञ्चाशत्प्रज्ञप्ता जिनेश्वरैः। वस्तुतस्त्वेतेषां पर्यतत्वेनाभाषितुमौचित्येऽपि पूर्वाचार्यानुरोधतः कूटत्वव्यवहारोऽप्यदुष्टः । एवश्च - " गिरिकूटकूटाकुटानां सङ्गतो जायते त्वियं । सङ्ख्या पंचशती पञ्चविंशत्याभ्यधिका ५२५ सुखम् ॥" अत्र च जम्बूद्वीपे षोडश हृदा भवन्ति । तत्र षण्महाहदाः षड्वर्षधरोपरिवर्त्तिनः पद्म- . महापद्मतिगिञ्छिपुण्डरीकमहापुण्डरीकेसर्यभिस्याः । तेषु हिमवति पद्महदः १ महाहिमवति महापद्महदः २ निषधे तिगिञ्छिहूद: ३ शिखरिणि पुण्डरीकसंज्ञः ४ रुक्मिणि महापुण्डरीकात्यः ५ नीलवति केसरीहृदश्चेति ६ । एतेषु पद्मपुण्डरीको समस्वरूपौ, महापदामहापुण्डरीकावपि मिथ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142