________________
सटीक जंबूद्वीप सङ्ग्रहणी
?
9
जगद्गुरुमित्यनेन वागतिशयश्च ४ । नन्वमीषां इत्थं क्रमेणोपन्यासः किं सप्रयोजन उत निः प्रयोजन इति चेत् सप्रयोजन एव, इत्थं क्रमेणामीषां लाभसूचकत्वात् । तथाहि रागद्वेषादिमोहनीयक्षयात् प्रथ॒मापायापगमातिशयात्राप्त अन्तर्मुहूर्तेन ज्ञानावरणीयादिक्षयात् केवलज्ञानलक्ष्मीमवाप्नोति अत एव ज्ञानातिशयद्वितीयत्वं केवलज्ञानसम्प्राप्तौ चतुर्निकायजा देवा: सम-, वसरणादिरूपां पूजां प्रतन्वन्ति, अतस्तस्य तृतीयत्वं समवसरणे कृते सति जगदेकबन्धुर्भगवान् योजनगामिनीं सर्वसत्त्वेषु तत्तद्भाषापरिणामिनीं देशनां गदतीति अत एव च वचनातिशयस्य तुर्यत्वम् । तथा चोक्तः सिद्धराजराजसदसि आशावसनजयात्राप्तख्यातिना वादिदेवसूरिणा स्वोपज्ञस्याद्वादरत्नाकर नाम प्रमाणनयतत्वालोकटीकायां एतेषां चातिशयानामित्यमुपन्यासे तथोत्पत्तिरेव निमित्तं तथाहि " नाविजितरागद्वेषो विश्ववस्तुज्ञाता भवति न चाविश्ववस्तुज्ञः शक्रपूज्यः सम्पद्यते; न च शक्रपूजाविरहे भगवांस्तथा गिरः प्रयुक्त इती " त्यादिनाऽयमेवार्थो निषेधमुखेनेति ।
महावीरंति महांश्चासी इतरापेक्षया वीरश्च महावीरस्तं - - 'शूरवीर विक्रान्तौ ' वीरयति स्म कषायोपसर्गपरीषहेन्द्रियादि शत्रु प्रति विक्रामति स्मेति वीरः, अथवा 'ईर गतिप्रेरणयोः' विशेषेण इरयति गमयति, स्फेटयति कर्म, प्रापयति वा शिवं, प्रेरयति वा शिवाभिमुखं इति वीर, अथवा 'ईरि गतौ ' विशेषेणापुनर्भावेनेर्ते स्म याति स्म शिवमिति वा वीरः, सर्वेषां गत्यर्थानां ज्ञानार्थत्वात् विशिष्ट ईरो ज्ञानं यस्य स वीरः, अथवा विशिष्टा केवलज्ञानात्मिका ईलक्ष्मीस्तां राति भव्येभ्यो हितोपदेशदानादिना प्रयच्छतीति वीरो वा । तथा चोक्तं
66
Jain Education International
अरहंतो भगवंतो अहियं चहियं च नवि इहं किंचि ।
करंति कारवंति य घेण जणं बला हत्थे || "
" उवएस पुण देंति जेण चरिएण कित्तिनिलयाणं । देवाण विहुति पहू किंमंग पुण मणुयमित्ताणं ॥ "
आभिव्युत्पत्तिभिर्भगवतः स्वार्थसम्पत्परार्थसम्पच्चोपदार्शिता ।
चीरः सुभटः अपराजितः सन्नद्भुत कार्यकारी वा तथा चायमपि भगवान् महावीरः परीषहोपसर्गैरनुकूलप्रतिकूलैरपराजितोऽद्भुतकर्मकारी मोक्षमार्गप्रणेता । तथा चोक्तं
" कोहं माणं च मायं च लोभं पंचेंद्रियाणि य । दुज्जयं चेत्रमप्पाणं सव्वमप्पे जिए जियं ॥
""
" जो सहस्सं सहस्साणं संगामे दुज्जए जिए । एक्कं जिणेज्ज अप्पाणं एस से परमो जओ ॥
""
For Private & Personal Use Only
www.jainelibrary.org