Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti

Previous | Next

Page 36
________________ सटीक जंबूद्वीप सङ्ग्रहणी अथ कथं तर्हि शाश्वतानपि व्याख्यास्यन्ति इत्यत आह-सुत्ता इति अथवा स्वात्मलघुतां दर्शयन् स्वकपोलकल्पितत्वं निराचिकीर्षयाऽऽह सुत्तेति सूत्रयति अल्पाक्षरैर्खेहून् अर्थान् इति सूत्रं तस्मात् अथवा सुष्ठु पूर्वापरविरोधाबाधितं उक्तं वचनं परमपुरुषप्रणीतप्रवचनं तस्माद् अथवा सूतं उत्पन्नं अर्थरूपेण तीर्थकृद्भ्यः शब्दरूपेण च गणभृद्भ्य इति - "" " अत्थं भासइ अरहा सुत्तं गंथति गणहरा निउणं । इति भद्रबाहुस्वामिवचनप्रामाण्यात् तस्मात् ' सर्वत्र लवरामवन्द्रे ' ८-२-७९ इति रलुकि, 'अनादौ शेषादेशयोर्द्वित्वमिति ' ८-२-८९ तद्वित्वे सूतपक्षे ' सेवादौ वा ' ८- २ - ९९ इत्यनेन वा च डसेस्तोदो दुहिहिन्तो लुकः ८-३-८ इति डसेलुकि, जसास्ङसित्तोदोद्वामि दीर्घः, ८-३-१२ इति दीर्घे च सुत्ता इति पञ्चम्येकवचनं, सूत्रं " , 6 च स्वयं बुद्धगणधरादिभाषितमेव न त्वन्यत् । यत उक्तं ( सुतं गणहररइयं तव पत्तेयबुद्धरइयं च । सुकेवलिणारइयं अभिन्नदसपुव्विणा रइयं ॥ तस्मात् उद्धृत्येति शेषः । अनेन शास्त्रस्य सूत्रमूलकतया तात्त्विकरूपं सूत्रपारतन्त्र्यं च प्रख्यापितं भवति । अत एव च तीर्थकृदाज्ञाराधकत्वेनाज्ञाव्याकोपस्य महापायनिबन्धनत्वं निराकृतं यदवादि Jain Education International ' वचनाराधनया खलु धर्मस्तद्बाधया स्वधर्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥१॥ ' अस्मिन् हृदयस्थे सति हृदयस्थस्तदूवतो मुनीन्द्र इति हृदयस्थिते च तस्मिन्नियमात् सर्वार्थसंसिद्धिः । भगवदाज्ञाविराधकतया स्वच्छन्द यतिपरिणतिः संसारमोचकादिपरिणतिरित्यपायाधिकत्वादशुभत्वमेवेति निणीतम् । यदुक्तं - • गलमच्छभवविमो अंगविसिन्न भोईण जारिस | एसो मोहासुहो वि असुहो तप्फलओ एवमेसो वित्ति ॥१॥ ' ११ ननु ' प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते । ' इति न्यायात् किमस्य सूरेः प्रवृत्ति' प्रयोजनमित्यारे कामपाकर्त्तमाह, सपरहेउति स्वपरहेतोः, स्व आत्मा ग्रन्थकर्तुः परः तदतिरि'क्त निखिल भव्य सत्त्वः तयोहेर्तुः कारणं तस्मात् अत्रापि ' सर्वत्र लवरामवन्द्रे ८-२-७९, 6 कगचजटडतदपयवां प्रायो लुक् ८-१-१७७ इत्यादिना रूपसिद्धिः कर्तव्या, एवमग्रेऽपि भाव्यम् । अनेन श्लोकेन ' प्रवृत्तिप्रयोजकीभूतज्ञानविषयत्वलक्षणमनुबन्धचतुष्टयं सूचितं भवति । " For Private & Personal Use Only " www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142