Book Title: Jambudweeplaghusangrahani
Author(s): Haribhadrasuri, Nandighoshvijay, Udaysuri
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सटीक जंबूद्वीप सङ्ग्रहणी
'चक्कीजेयब्वाई' इत्यादि इत्यष्टमम् ॥ ८॥ द्दहति पद्माद्या हूदाः कियन्तो यदभिधास्यति 'महदह छप्परमाई ' इत्यादि इति नवमम् ||९|| सलिलाओत्ति गङ्गासिन्यवाद्याः सरितः कियत्यो यत्प्रतिपादयिष्यति 'गंगासिंघू रत्ता रत्तवई चऊनईओ पत्तेयं ' इत्यादि इति दशमम् ॥१०॥
चकारस्यानुक्तसमुच्चायकत्वात् सरितां विशालत्वं, नगानां वर्णोच्चत्वावगाढत्वाद्यपि बोध्यम्, यद् वक्ष्यति 'छजोयणसकोसे गंगासिंधूणवित्थरो मूले ' इत्यादि 'जोयणसयमुच्चिट्ठाकणयमयासिहरिचुल्लहिमवंता' इत्यादि च । सिं एषां पूर्वोक्तानां खण्डयोजनादीनां पदार्थानां पिंडे पिण्डे समुदिते सति होइ भवति संघयणी सङ्ग्रहणी जंबूद्वीपपदार्थसङ्ग्रहकर्तृशास्त्रं, अतोऽस्य प्रकरणस्य गुणनिष्पन्नं सङ्ग्रहणीत्यभिधानं ध्वनितं ग्रन्थकृद्भिः इति द्वितीयगाथार्थः ।
अथ तावत् विधानतः स्वरूपतो लक्षणतो वा विस्तरतोऽभिधास्यमानोऽपि पदार्थसमुदायः विनेयानुग्रहार्थं नाममात्रेण संक्षेपतः सग्रहीक्रियते । तथाहि .
-
आयामतो व्यासतश्चायं जंबूद्वीपो लक्षयोजनप्रमाणमितः । उद्वेघोत्सेधतश्च साधिकलक्षयोजन - प्रमाणः । अयं च द्विगुणमानानेकलवणघातक्यादिपारावारद्वीपवेष्टितपूर्णचन्द्राकृतिः शेषाणि
वलयाकृतीनि ।
Jain Education International
जंबूद्वीपादि द्वीपसमुद्राः
पुष्कर वरद्वीप
-कालोदधि
धातकी खंड
लवण समुद्र
जंबूद्वीप
900000
यो. २०००००
४००००० यो.
८००००० यो.
१६००००० यो.
स्थापना चेयं प्रमाणयंत्रकं चेदम् जंबूद्वीप :
१,००,००० यो.
लवणसमुद्र : २,००,००० यो. धातकीखण्ड : ४,००,००० यो. कालोदधिसमुद्र : ८,००,००० यो.
चित्राङ्कः १
अत्र जंबूद्वीपे सप्तक्षेत्राणि विराजन्ते । भरतहैमवत हरिवर्षाख्यानि त्रीणि दक्षिणस्यां, ऐरवत
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142