SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सटीक जंबूद्वीप सङ्ग्रहणी 'चक्कीजेयब्वाई' इत्यादि इत्यष्टमम् ॥ ८॥ द्दहति पद्माद्या हूदाः कियन्तो यदभिधास्यति 'महदह छप्परमाई ' इत्यादि इति नवमम् ||९|| सलिलाओत्ति गङ्गासिन्यवाद्याः सरितः कियत्यो यत्प्रतिपादयिष्यति 'गंगासिंघू रत्ता रत्तवई चऊनईओ पत्तेयं ' इत्यादि इति दशमम् ॥१०॥ चकारस्यानुक्तसमुच्चायकत्वात् सरितां विशालत्वं, नगानां वर्णोच्चत्वावगाढत्वाद्यपि बोध्यम्, यद् वक्ष्यति 'छजोयणसकोसे गंगासिंधूणवित्थरो मूले ' इत्यादि 'जोयणसयमुच्चिट्ठाकणयमयासिहरिचुल्लहिमवंता' इत्यादि च । सिं एषां पूर्वोक्तानां खण्डयोजनादीनां पदार्थानां पिंडे पिण्डे समुदिते सति होइ भवति संघयणी सङ्ग्रहणी जंबूद्वीपपदार्थसङ्ग्रहकर्तृशास्त्रं, अतोऽस्य प्रकरणस्य गुणनिष्पन्नं सङ्ग्रहणीत्यभिधानं ध्वनितं ग्रन्थकृद्भिः इति द्वितीयगाथार्थः । अथ तावत् विधानतः स्वरूपतो लक्षणतो वा विस्तरतोऽभिधास्यमानोऽपि पदार्थसमुदायः विनेयानुग्रहार्थं नाममात्रेण संक्षेपतः सग्रहीक्रियते । तथाहि . - आयामतो व्यासतश्चायं जंबूद्वीपो लक्षयोजनप्रमाणमितः । उद्वेघोत्सेधतश्च साधिकलक्षयोजन - प्रमाणः । अयं च द्विगुणमानानेकलवणघातक्यादिपारावारद्वीपवेष्टितपूर्णचन्द्राकृतिः शेषाणि वलयाकृतीनि । Jain Education International जंबूद्वीपादि द्वीपसमुद्राः पुष्कर वरद्वीप -कालोदधि धातकी खंड लवण समुद्र जंबूद्वीप 900000 यो. २००००० ४००००० यो. ८००००० यो. १६००००० यो. स्थापना चेयं प्रमाणयंत्रकं चेदम् जंबूद्वीप : १,००,००० यो. लवणसमुद्र : २,००,००० यो. धातकीखण्ड : ४,००,००० यो. कालोदधिसमुद्र : ८,००,००० यो. चित्राङ्कः १ अत्र जंबूद्वीपे सप्तक्षेत्राणि विराजन्ते । भरतहैमवत हरिवर्षाख्यानि त्रीणि दक्षिणस्यां, ऐरवत For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy