SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ १२ सटीकजंबूद्वीपसङग्रहणी तत्र गाथापूर्वाधेर्न स्वाभीष्टदेवतानुतिरूपं मङ्गलमावेदितं, पश्चाधेन तु प्रेक्षावत्प्रवृत्यर्थं प्रयोजनादि त्रयमिति । यत उक्तं - उक्तार्थं ज्ञातसम्बन्ध, श्रोतुं श्रोता प्रवर्तते ।' इत्यादि । तत्र, जंबुद्दीवपयत्थे इत्यभिधेयपदं, सपरहेउ इत्यनेन प्रयोजनं सूचितं । सम्बन्धो द्विविधः गुरुपर्वक्रमलक्षणः उपायोपेयभावलक्षणश्च । आद्यः श्रद्धानुसारिणः प्रति, यतः ते तु तीर्थकृद्गणभृदादिश्रद्धयैव प्रवर्तन्ते । द्वितीयस्तर्कानुसारिणः प्रति । तत्र गुरुपर्वक्रमलक्षण: सूत्रादित्यनेन साक्षादावेदितः, तथाहि सूत्रस्यार्थरूपेणार्हभाषितत्वाच्छब्दरूपेण गणभृत्प्रणीतत्वाच्च तदुद्धतं चेदं प्रकरणं इति, उपायोपेयलक्षणसम्बन्धस्त्वनुक्तोऽपि अभिधेयप्रयोजनपदादनुमेयः । तथा चोक्तं, ' शास्त्रं प्रयोजनं चेति सम्बन्धस्याश्रयावुभा'वित्यादि । अधिकारी त्वनधिकृतोऽपि जंबूद्वीपपदार्थजिज्ञासुरधिकाराद् गम्यते । इति प्रथमगाथार्थः । अथेह शास्त्रे यावन्तोऽधिकारा वाच्यास्तावत एकगाथया दिदर्शयिषया आह । अथवा येषां जंबूद्वीपपदार्थानां विवक्षा तान् द्वारगाथया दर्शयति । खंडा जोयण वासा पव्वय कूडा य तित्थ सेढीओ । विजय इह सलिलाओ पिंडेसि होइ संघयणी ॥२॥ खंडात्ति अत्र जंबूद्वीपे खण्डा भागाः सषट्कलषविंशत्यधिकपञ्चशतयोजनपरिमितकल्पितदेशा इह कियन्त इति वाच्या यद् वक्ष्यति ‘णउयसयं खंडाणमित्यादि इति प्रथम द्वारम् ॥१॥ जोयणा इति पदैकदेशे पदसमुदायोपचारात् भामेत्युक्ते सत्यभामावत् समचतुरस्र. योजनप्रमिता कियन्तः खण्डा गणितपदापरनामका इति वक्तव्यम् यदभिधास्यति 'जोयणपरिमाणाई' इत्यादि तद्वितीयं द्वारम् ॥२॥ वासा इति वर्षाः क्षेत्राणि भरतादीनि कियन्ति यत्कथ. यिष्यति ' भरहाइ सत्तवासा' इति तृतीयम् ॥३॥ पव्वयत्ति पर्वता नगा वैताढयादयः कियन्तो यत्प्रतिपादयिष्यति · वियड्ढचउचउरतिसवट्टियरे ' इत्यादि इति चतुर्थम् ॥४॥ कूडा इति सिद्धायतनादीनि कूटानि शिखराणि तानि वैताढयादिषु नगेषु प्रत्येक भूमिकूटानि च ऋषभादीनि कियन्ति यद्वक्ष्यति · सोलसवक्खारेसु ' इत्यादि · चउतीसं विजएसु ' इत्यादि पञ्चमम् ॥५॥ यत्ति चः समुच्चयेऽनुक्तसमुच्चायकश्च । तित्थत्ति मागधादीनि अत्र तीर्थानि कियन्ति यत्कथयिष्यति ' मागहवरदामपभास'मित्यादि इति षष्ठम् ॥६॥ सेढीओत्ति श्रेणयस्ताश्च विद्याधराणां आभियोगिकसुराणां च प्रत्येकं पूर्वोक्तवैताढयादिषु अचलेषु कियत्यो यदभिधास्यति । विज्जाहर आभिओगीय इत्यादि इति सप्तमम् ॥७॥ विजयत्ति चक्रवर्तिजेयानि इह कियन्ति विजयानि यद् वक्ष्यति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001447
Book TitleJambudweeplaghusangrahani
Original Sutra AuthorHaribhadrasuri
AuthorNandighoshvijay, Udaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Geography, P000, & P030
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy