Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२१६
'श्री हीरसुन्दर' महाकाव्यम् हील० निर० । श्रीसुरिणा मुहूर्तं गृहीतम् । पुनश्चाङ्गामन्त्रिणा श्लोघ्योत्सव: आरब्धः ॥१०१।। हीसुं० अथ 'शिल्पिचणैर चीकरन नुवादैरिव "विश्वकर्मणः ।
मणिमण्डपमं शुडम्बराधरितादित्यममात्यमानवाः ॥१०२॥ (१) शिल्पिचणैः-प्रकृष्टविज्ञानिभिः । (२) कारयन्ति स्म । (३) प्रतिरूपैः । ( ४ ) त्वष्टुः ।
(५) किरणाडम्बरेण तिरस्कृतमार्तण्डम् ॥१०२॥ हील० देवसूत्रधारसदृशैः शिल्पिषु चतुरैर्मन्त्रिमा रत्नमण्डपं कारयन्ति स्म ॥१०२ ॥ हीसुं० 'मणिकल्पितशिल्पकौतुकप्रकरालोकनलालसाशयाः ।
त्रिदशास्त्रि'दशीसखादिवः किमिहालेख्यमिषादुपागमन् ॥१०३॥ (१) रत्नै रचितविज्ञानीकुतूहलनिकरनिरीक्षणे लम्पटचित्ताः । (२) देवीयुताः । (३)
चित्रकपटात् ॥१०३॥ हील० उत्प्रेक्ष्यते । चित्रदम्भाद्देवीयुक्ता देवा आगताः ॥१०३।। हीसुं० 'समुहूर्त्तदिने गुरुः समं मुनिभिर्मण्डपमध्यमीयिवान् ।
सदसः सदनं 'धुसद्मभिः प्रतिपन्थी पृथिवीभृतामिव ॥१०४॥ (१) सूरिः । (२) निश्चितवासरे । (३) समेतः । (४) सभागृहम् । “नृपस्य नातिप्रमना:
सदोगृह"मिति रघुवंशे । (५) देवैः । (६) शक्रः ॥ १०४ ॥ हील० स मु० । स सूरिः साधुसहितो मण्डपमागतः । यथा गिरिवैरीन्द्रो देवैः सह सभागृहमागच्छति
॥१०४।। हीसुं० 'इदमीयमहामहेक्षणोपनतैः पौरनरैः परःशतैः । __ निभृतं भ्रियते स्म न मण्डपो "नवकासार इवाम्बुदाम्बुभिः ॥१०५॥
(१) सूरिपदसम्बन्धिमहोत्सवविलोकनार्थमागतैः । (२) सहस्रसङ्घयैः । (३) निर्भरम् ।
(४) नवीनसर इव । (५) मेघनारैः ॥१०५॥ हील० इदमी० । अस्य पदोत्सवालोकनार्थमागतैर्लक्षबद्धनरैर्मण्डपोऽत्यर्थं भ्रियते स्म । यथा नवीनतडाक:
मेघजलैनिर्भरं पूर्यते ।। १०५ ।। हीसुं० 'त्रिशलातनुजन्मशासनाभ्युदयं 'मूर्त्तमिव व्रतीश्वरम् ।
यतिभिस्तम जूहवद्गुरु स्त्रिदशीशंसितभाग्यवैभवम् ॥ १०६ ॥ (१) महावीरशासनस्योदयम् । (२) मूर्त(ति)मन्तमिव । (३) हीरहर्षोपाध्यायम् । (४)
साधून्प्रेषित्वा । (५) आकारयति स्म । (६) शासनदेवीकथितपुण्यसम्पदम् ॥१०६॥ हील. त्रिश० । श्रीसूरिः व्रतिभिस्तं हीरहर्षोपाध्यायं आकारयामास । उत्प्रेक्ष्यते । श्रीवर्द्धमानस्वामिनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350