Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२९६
'श्री हीरसुन्दर' महाकाव्यम्
धनुः (५) विशिष्टं नितम्ब एव रथाङ्गं यस्याम् । (६) मदननृपस्यायुधगृहम् ॥१६३॥ हील० भुजौ कर्णौ पाशौ यस्यां तादृशी कामस्य शस्त्रशालेव सुरी शुशुभे ॥*१६८|| हील०→विभूषणैः स्वर्णमणीप्रणीतैर्वसन्तलक्ष्मीरिव नैकपुष्पैः ।
विदिद्युते सा मलयानिलैरिवामोदैर्दिश: सौरभयन्त्यहर्निशम् ॥१६९।। काञ्चनरत्नघटिताभरणैः सा भाति । यथा वसन्तो विविधपुष्पैः शोभते । किंकुर्वन्ती(ती)?। स्वाभाविक
कायसुरभिताभिर्दिशः सौरभयन्ती । यथा दाक्षिणात्यवायुभिर्दिशः सुगन्धीकरोति ॥१६९।। हील०→ दिव्यैर्दुकूलाभरणैर्विभूषिता सम्पूरयन्ती जगतामपीहितम् ।
आकृष्य भाग्येन विभोर्मलता नीता पुरस्तादिव देवता बभौ ॥१७०॥
देवता बभौ । उत्प्रेक्ष्यते । सूरीन्द्रभाग्येनाकृष्य आनीता कल्पवल्ली ॥१७०॥ हीसुं० _ 'निखिलदिविषदो( द्यो)षालेखाकुमुदनकौमुदी,
'श्रिततनुलता रेतद्भाग्यश्रीरिवा'मरसुन्दरी । पनखरशिखरादारभ्येति क्रमाच्चिकुरावधि, "प्रथितसुषमा मा]श्लिष्यन्ती पुरः शुशुभे प्रभोः ॥१६४॥ इति पं. देवविमलगणिविरचिते हीरसौभाग्य(सुन्दर) नाम्नि महाकाव्ये शासनदेवता समागमनतत्सर्वाङ्गवर्णनो नामाष्टमसर्गः ॥ ग्रन्थाग्रं ॥२२५॥ (१) समस्तसुरवनितापङ्क्तिकैरवकाननेन आह्लादचन्द्रचन्द्रिका। (२) अङ्गीकृता शरीरयष्टिर्यया । (३) तस्य सूरीन्द्रस्य भाग्यलक्ष्मीरिव । (४) शासनदेवता । (५) चरणनखाग्रात् । (६) केशपाशं यावत् । (७) त्रिजगद्विख्यातां सातिशायिनी शोभामाश्रयन्ती ॥१६४॥
इत्यष्टमः सर्गः ॥ ग्रन्थाग्रं ॥३२५॥ हील० सकलस्वर्गाङ्गनानां लेखा श्रेणी सैव पङ्कजवनं तत्र चन्द्रज्योत्स्ना सदृशी पुनः सूरीशभाग्यलक्ष्मी
[रिव चरणनखा]दारभ्य केशपाशान्तं यावत्सातिशयशोभा पुष्यन्ती सा शासनामरसुन्दरी सूरिपुरः
शुशुभे इति ॥१७१॥ हील०→ यं प्रासूत शिवाहासाधुमघवा सौभाग्यदेवी पुनः
पुत्रं कोविद सिंहसी( सिं)हविमलान्तेवासिनामग्रिमम् । तबाहीक्रमसेविदेवविमलव्यावर्णिते हीरयुक्
सौभाग्याभिधहीरसूरिचरिते सर्गोऽजनिष्टाष्टमः ॥१७२॥ इति श्रीपं.सी(सिं)हविमलगणिशिष्यपं.देवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये ध्यान-शास
देवतागम-[देवीः ?]सर्वाङ्गवर्णनो नामाष्टमः सर्गः ॥
*- एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350