Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३१०
'श्री हीरसुन्दर' महाकाव्यम् सौधेषु दन्तादिव पुत्रिकाणां रक्षातिरेकैः स्तिमितीबभूवे ॥३१॥ यातस्य विष्णोर्नरकं निहन्तुं भ्रष्टा तदंहेर्नभसा......... । ज्योत्स्त्रीषु यच्चान्द्रगृहच्युताम्भो-दम्भेव भूपीठमिवोपयाताम् ॥३२॥ ज्योतिःपयःपूरतरङ्गितैतन्निवासनीलाश्मशिखामिषेण । एतत्पथेनार्कसुता स्ववतुः सम्प्रस्थितोच्चैमिलितोत्सुकेव ॥३३॥ गाङ्गो( ङ्गे यगारुन्मतपद्मराग-चन्द्राश्मसंदृब्धगृहच्छलेन ।
स्वभूपभा सह सङ्गरङ्गे पुरश्रिया क्लृप्त इवानुरागः ॥३४॥ ६६. बालारुणज्योतिरखर्वगर्व-सर्वकषैः शोणमणीनिकेतैः ।
धरातुरा साहमि नु( ? ) स्वकान्तं पुरश्रियोद्गीर्ण इवानुरागः ॥३५॥ भक्तिप्रसन्नादगिरिशादवाप्तां, गलत्कलां बहुरूपविद्याम् । यच्चान्द्रसमच्छलतः सितांशुः किं कौतुकीव प्रथयाञ्चकार ॥३६॥ यत्पौरपुंसै रतिजानिगर्व-निर्वासिभिः श्रीभिरिवाभिभूतः । मन्दीभवन्भूभृदधित्यकाया-मावासमालम्बत नारकारिः ॥१॥ यन्नागरैर्भत्सितमच्छया त्स्य )केतु-श्रीभिः पराभूतिमयाप्यमाना। विहस्तचित्तेव ततिः सुराणां, स्वःसार्वभौमं शरणीचकार ॥२॥ पौरश्रियं प्रेक्ष्य तदेकतानी-भूतां स्वकान्तामवलोक्य यत्र । लक्ष्मच्छलेनाऽपररागशीका, शङ्के शशी श्याममुखीबभूव ॥३॥ यत्पौरलोकानवलोक्य मा स्ता-त्तल्लुब्धचेता गिरिनन्दनाऽसौ । स्वाङ्गं तदङ्गेन तदन्यसङ्ग-शङ्कीव शम्भुर्व्यतिसीव्यते स्म ॥४॥ हराक्षिवह्नौ ज्वलदात्मयोने: सारं गृहीत्वेव सरोजजन्मा । यत्पौररागो रचयाञ्चकार, न चेत्कुतस्तत्र तदीयलक्ष्मीः ॥५॥ विगानितानङ्गकुरङ्गनेत्रा-श्चकासिरे मत्तचकोरनेत्राः । अमूरमोघा इह शक्तयः किं जगद्विजेतुं मकरध्वजस्य ॥६॥ श्री सूनुभूभर्तुरिवाग्रदूत्यः स्वर्वर्णिनीनां किमुतानुवादाः । नागाङ्ग [ना ]नां किमु वा वयस्यो-ऽलङ्कर्वते यन्नगरं मृगाक्ष्यः ॥११॥ तत्रास्ति बाहादर भूमिभानु )पाठिसाहि-सूनुर्महीन्द्रो महमून्दनामा । वधूनवोढेव दिने दिने भूः, श्रियं दधौ यत्करपीडिताऽपि ॥१२॥ प्रजाप्रशास्तारमितात्मतानं, नीतेनिकेतं तमवेक्ष्य विज्ञैः ।
स्वयं पुनः शासितुमेष विश्वं, रामोऽवतीर्णः किमिति व्यतर्कि ॥१३॥ ६८. निस्त्रिंशमन्थानघनव्यमान- महाहवक्षीरतरङ्गिणीशे ।
प्रसूतया यो बलिशासतोऽब्धि-शायीव ववे विजयस्य लक्ष्या ॥१४॥ ६९. पराजितैरप्रतिमैः स्वदान-लीलायितैरुन्नमदम्बुवाहैः । 1. अयं श्लोक: ९२तमश्लोकस्य पाठान्तरोऽस्ति । 2. अयं श्लोकः १००तमश्लोकस्य पाठान्तरोऽस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350