Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 325
________________ ३१२ 'श्री हीरसुन्दर' महाकाव्यम् निष्पादितं यत्तनुजन्मनः कृते गजेन्द्रयानस्य शतक्रतोरिव । प्रमथ्य दुग्धाम्बुधिमभ्रमूप्रियं परं पुनः कं स जितेव कर्षितम् ॥७॥ विजित्य लक्ष्याखिलदिग्गजानिवा-मितैर्जयाद्देश्च( व? रैर्विराजितम् । किमस्तसन्ध्या परसौ( शौर्यभास्वतां, स्वमूर्ध्नि सिन्दूररुचिं च बिभ्रतम् ॥८॥ मदाम्बुभिः षड्रसभोजनैरिव स्वगण्डयोर्दाननिकेतयोरिव । मधुव्रतानामिव मार्गगामिनां, सृजन्तमद्वैत मुदं वदान्यवत् ॥९॥ जलं करं प्रणव (?) निर्गतं शरद्-विभावरीवल्लभबिम्बमध्यतः । महीतलेऽभ्यागतया कथञ्चना-वतिष्ठमानं किमु वा सुधारसम् ॥१०॥ सृजन्तमुच्चैः स्वकरं मदोदया, कुलादिसान्द्रप्रतिनादमेदुरैः । ध्वनिप्रतिस्पर्द्धितयात्मगर्जितै - रुषावगायन्तमिवाम्बुदान्वयम् ॥११॥ कुतूह [ ले नैव महीविहारिणं, महीधरं कैर[व]बन्धुधारिणः । शरत्सुधांशोरिव पिण्डितं महः, किमेतयोर्भाग्यनभोमणेरहः ॥१२॥ आदि सप्तभिः कुलकम् ॥ अमोचितं स्वप्नमवेक्ष्य संलये विलोचनाम्भोरुहमुद्रणानया । पयोरुहिण्येव पुलोमशा सना-वनीधरे वारिजबान्धवोदयम् ॥१३॥ असौ प्रसुप्ता सुखनिद्रयाङ्गना, समीक्ष्य स्वप्नं तमवाप संमदम् । यथा परब्रह्म समीररुन्धनै-निबद्धवीरासनयोगिमण्डली ॥१४॥ गभीरताबन्धुरितोपकाननं स्मितप्रसूनव्रजराजितान्तरात् । स्वहंसतूली शयनोदरादसौ क्षणादुदस्तात्करिणीव सैकतात् ॥१५॥ मरालबालेव विलासगामिनी क्षितौ क्षिपन्ती [ पद पद्मयामलम । नितम्बिनी मन्थरमन्थरं ततो ययौ समुद्दिश्य पतिं पतिव्रता ॥१६॥ क्षणादथोर्वीवलयोर्वसीमणी-विभूषणप्रोषितरोदसीतमाः । असौ पुरस्तात्प्रकटीबभूवुषी प्रियस्य मूर्तेव कुलाधिदेवता ॥१७॥ तया क्रमादिभ्यविभावरीवरो विनिद्रणागोचरतामवापितः । वचोविलासैररुणांशुभिर्यथा-रविन्दविन्दं दिवसाननश्रिया ॥१८॥ सुमध्वजोर्वीधरजैत्रशस्त्रया, रहस्यवत्स्वप्न उदात्त नेत्रया । विनिद्रतां लोचनयोर्वितन्वते, न्यवेदि तस्मै व्यवहारिभास्वते ॥१९॥ गिरं सधापामिव जामिमदतां, सधासमद्रादिदमाननाद्धिोः । । निपीयकर्णैः पुटकैरिवान्तरा स कूणिताक्षः परमां मुदं दधौ ॥२०॥ किमावयोरेष फलं प्रदास्यति स्वपाणिसिक्तस्मयमानशालिवत् । इदं निगद्य प्रमदाद् वसुन्धरा-प्सरा अनाध्यायमवासयन्मुखे ॥२१॥ द्विजावलीचन्द्रिकयानुविद्धया स्मितश्रिया सेवितसृक्वदेशया । भुजान्तराभोगविलासमौक्तिका-वलीसरश्रेणिमिवोपचिन्वता ॥२२॥ निगद्यते स्म व्यवहारिणा क्षणं, विमृश्य तेनाथ विलोललोचना । रथाङ्गनाम्नेव रथाङ्गबान्धवो-दये रथा[ङ्गी ] स्वसमीपमीयुषी ॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350