Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२९८
'श्री हीरसुन्दर' महाकाव्यम् 'क्व वृत्तमेतन्मुनिमेदिनीन्दोः कशेमुखी(पी) वा तनुगोचरा मे । "मोहादिवाहं निखिलाभ्रवीथीं प्रमातुमीहेऽङ्गलिमण्डलेन ॥४॥ योऽमन्दगन्धैरिव गन्धसारो दिशो यशोभिः सुरभीकरोति । तस्यैष काव्यं प्रथयामि नाथी-'देवीतनूजन्मयतिक्षितीन्दोः ॥५॥ 'क्रीडन्मरुनागरनागयुग्मै-रिव त्रिलोकी सुषमां दधानः ।। इलातलालकृतिरस्ति जम्बू-द्वीपो महीमण्डलमध्यवर्ती ॥६॥ "यं स्तो( स्तौति रङ्गद्गजवाहिनीकं कुमुद्वतीकान्तसितातपत्रम् । गभीररावैरिह सार्वभौमं वैतालिकालीव पयोधिवेला ॥७॥ "द्वीपश्रियाः श्वेतमरीचिचण्ड-रोचिर्द्वयीमण्डलकुण्डलायाः । स्म द्योतते तारकतारहार-स्तनान्तरे रत्नमिवामराद्रिः ॥८॥
अन्तः प्रतिच्छायिततारमुक्ता-मणीमरीचिस्फुरदिन्द्रचापा । १"काञ्चीपदे द्वीपमहीन्दिरायाः सौवर्णकाञ्चीव चकास्ति सालः ॥९॥ १९पुन्नागनारंगरसालसाल-निष्यातिपौष्पप्रसरत्प्रवाहः । द्वीपेन्दिराया इव रत्नसानुः खेलायितुं पद्मभुवा व्यधायि ॥१०॥ ज्योतींषि यस्मिन्सुरराजशैलं प्रदक्षिणप्रक्रमणं नयन्ति । सुवृत्तकल्याणमयः क्षमाभृ-त्सुस्थो महात्मायमितीव बुद्धेः ॥११॥ १ प्रदक्षिणीभूतवतां ग्रहाणां वृन्दानि वृन्दारकसानुमन्तम् । व्याजेन जाने प्रसरत्कराणा-मभ्यर्थयन्ते तपनीयजातम् ॥१२॥ जागर्ति तस्मिन्भरताभिधानं क्षेत्रक्षितिश्रीतिलकायमानम् । उच्चित्य सारं विधिनेव जम्बू-द्वीपस्य निक्षिप्तमिहैकदेशे ॥१३॥ १वैताढ्यशैलेन विभक्तमन्त-विद्योतते भारतभूमिपीठम् । सीमन्तदण्डेन यथा सुकेशी-कैश्यं यमीरङ्गितरङ्गदेश्यम् ॥१४॥ वैताढ्यभूमीध्रविभक्तभाग-द्वयस्य दम्भादिव भारतस्य । "द्वीपावनीपालमुपेत्य लक्ष्म्या स्वर्नागलोको विजितौ भजेते ॥१५॥ क्रीडारसादुत्तरलीभवन्त्या यद्भारताम्भोनिधिनन्दनायाः । १५स्रस्तं शिरस्तः सितमुत्तरीय-मिवास्ति विस्तारिनभःश्रवन्ती ॥१६॥ तस्मिन् श्रिया 'स्वर्गसमृद्धिगर्व निर्वासयन्गूजरनीवृदास्ते । रन्तुं रमायाः पुरुषोत्तमेन लीलालयोऽम्भोजभुवेव सृष्टः ॥१७॥ १६स्फुरन्मणीकर्मविनिर्मितान्त-निकेतना यत्र बभुर्नगर्यः । अनै( ने )करूपैरमरावती य-मुपेयुषी कौतुकिनीव भूमौ ॥१८॥
यत्राबभुर्भूललनाललाट-ललामलीलायितकेलिशैलाः ।
इवेयिवान्देशदिदृक्षुरिन्द्र-शैलः स्वमूर्तीर्बहुधा विधाय ॥१९॥ 1. स्व:सदनस्य इति टि०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350