Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
३००
'श्री हीरसुन्दर' महाकाव्यम् भिल्लाधिपातां परमाणुमध्या अध्यासत क्वापि परां विभूषाम् । गारुन्मतोदात्तमरीचिरुच्याः सङ्केतगेहा इव मीनकेतोः ॥३५॥ लक्ष्मीः क्वचित्पुञ्जितपामरीभिः शुभ्राम्बराभिर्बिभराम्बभूवे । ज्योत्स्नावदातीकृतकज्जलोज़-धरस्य शङ्के शिखरावलीभिः ॥३६॥ क्वचिच्चकासे शबराङ्गनाभि-मुक्तासरश्रेणिपरिस्कृ( ष्कृताभिः । नक्षत्रताराग्रहसङ्ग्रहाभिः कुहूभिरूहेऽङ्गपरिग्रहाभिः ॥३७॥ कुत्रापि कर्णीकृतदन्तपत्रा बभुः शबर्यः श्रितम गुञ्जाः । मिलबलाकाजलबालिकाङ्का इवोन्नमन्मेदुरमेघमालाः ॥३८॥ इति २"नीलोत्पलश्यामलितान्तरालै-र्यस्मिन्विरेजे सरसीसमूहैः । बिभ्यद्भिरेतैरिव सैहिकेयात् भूमौ दशश्वेतहयैरुपेतम् ॥३९॥ २५शशाङ्कदेश्यैः स्मयमानकोशैः सहस्रपत्रैः शुशुभे सरस्सु । नन्दीसर:श्रीजयिनामिवैतैः २६सरो नृपाणां विशदातपत्रैः ॥४०॥ २"मरन्दलुभ्यन्मधुपानुषङ्गै - हेमारविन्दैः कमला ललम्बे । महेन्द्रनीलाङ्कितभूषणानां गणैरिवामुष्य तडागलक्ष्या: ।४१॥ २“उत्तालतालं करतालिकाभि-र्गीति जगे क्वापि कुटुम्बिनीभिः । श्रीनन्दनक्षोणिपुरन्दरस्य जगज्जयोपाजित कीर्तिरूहे ॥४२॥ २"क्वचिच्चुकूजे कलमानदद्भिः फलादनैः 'कर्णसुधायमानम् । बालैः प्रभिन्नाञ्जनिकाविनील - केदारलक्ष्म्या इव केलिलोलैः ॥४३॥ "क्वचिद्विनीला विललास यस्मिन् - केदारभूर्भूधरयुग्मसीम्नि । उत्तुङ्गपीनस्तनसन्निधाने महीन्दिराया इव रोमराजी ॥४४॥ 'उन्मादिकादम्बकदम्बकेन कैदारिकेन स्फुयाम्बभूवे । अन्तर्मिलन्मौक्तिकमालिनेव नीलोत्तरीयेन महीरमायाः ॥४५॥ ३"गोपालबालाभिरखेलि लीलाहलीसखं यत्र सुखं सखीभिः । गीति सृजन्तीभिरनन्यजन्म-महीहिमांशोरिव नर्तकीभिः ॥४६॥ २'कुत्रापिदम्यैनुगम्यमाना गोधुग्गणैर्दोणदुघा निकुञ्जम् । यस्मिन्ननीयन्त वनं सुराणां मरुत्कुमारैरिव कामगाव: ॥४७॥ ३"कुत्रापि दम्यैरनुगम्यमाना मरुत्कुमारैरिव गोपबालैः । गवां गणाः कामदुघोपमेयाः यस्मिन्ननीयन्त वनप्रदेशम् ॥४७॥ पाठान्तरम् ॥ ३"सुधासुधासिन्धुसुधांशुलक्ष्मी-मुषां मिषाद्यत्सुरभीभराणाम् । इवाल्पशेषैः सुकृतैः सुराणां स्वःसौरभेयीभिरिहावतीर्णम् ॥४८॥
1. श्रोत्र० इति टि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350