Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 315
________________ ३०२ 'श्री हीरसुन्दर' महाकाव्यम् अदुन्दुभीयन्त पिकाङ्गनानां यस्मिन्स्वनाः पञ्चमगीतिगर्भाः ॥६५॥ पदे पदे यत्र रसालमाला निभाल्य कूजत्कलकण्ठबालाः । स्मरावनीन्दुस्तृणवत्रिलोकी-मजीगणन्निस्तुलशस्त्रलाभात् ॥६६॥ इति । ४५प्रह्लादनाह्वा नगरी चकास्ति हिरण्मया तत्र हरेः पुरीव । श्रीगूर्जरक्षोणिपुरन्दरस्य माणिक्यगर्भेव कुनाभिकुम्भी ॥६७॥ भर्ता मरुत्वान्मम कौशिकश्च गोत्रस्य हन्तेति जुगुप्समाना । मिषादमुष्याः परिहृत्य नाकं पुरी किमागादिह पौरुहूती ॥६८॥ ५ यस्यां मणीकर्मविनिर्मिताना-मभ्रंलिहानां गृहयारणीनाम् । मध्यंदिने शृङ्गगणाङ्गणेषु मार्तण्डबिम्बं कलशायते स्म ॥६९॥ ५'छायापथोऽभ्रंलिहमन्दिराणां दण्डायते - शिखान्तरेषु । ध्वजायते सिद्धधुनी ध्वनन्त्यो-ऽप्यकिङ्किणीयन्त तदीयहंस्यः ॥७०॥ ५२अखेलि खे यद्गृहश्रृङ्गवात-वेल्लत्पताकापटपल्लवीधैः । यद्दर्शिभिर्विष्णुपदीप्रवाहैः सहस्रकायैः कुतुकादिवासे ॥७१॥ यद्वर्णनाकर्णनतद्दिदृक्षा - रत्नाकुलीभूतहृदार्णवेन । अस्थायि यस्यां परिखामिषेण, जाने लघूभूतवता समेत्य ॥७२॥ ५रोमाञ्चिता वीचिचयेन मीनैः, स्मितेक्षणा द१ररावचाटुः । विलासिभिरविलासिनीव, प्रभञ्जनैर्यत्परिखा न्यषेवि ॥७३॥ ५"चिराशनायाकुलितं कुरङ्ग, सुधाऋचा चारयितुं नभस्तः । उपान्तसंरूढविनीलनीले, बिम्बच्छलाद्यत्सलिलेऽवतेरे ॥७४॥ ५५उदस्तहस्ते पवनावधूत-वीचिच्छलाद् त् ) खातिकयेव यस्याः । एतत्पुरस्ते कियती विभूति-र्वस्वोकसारेति विगीयते स्म ॥७५॥ ५६मातङ्गिनी पुष्पकरम्बिताङ्गी, कृतानुषङ्गा मधुपैरितीव । विगानधूत्यै कुरुते वनश्री-बिम्बेन दी( दि )व्यं परिखाप्रवाहे ॥ ५ आरामलक्ष्मीरभिसारिकेव, सालेन यूना सह संसिसृक्षुः । बिम्बोपधेः शासनहारिकां स्वां, चिकीर्षुरागात्परिखामिवैषा ॥७७॥ ५“यद्वप्रनानामणिराजिनिर्य-ज्ज्योतिःप्ररोहैर्दिवि संचरद्भिः । प्रपञ्च्यते स्म प्रसरत्पयोदं, विनाऽपि सङ्क्रन्दनचापचक्रम् ॥७८॥ वहन् हरिं यद्वरणः स लक्ष्मी, कपाटपक्षोऽथ सुवर्णकायः । विगाहमानो गगनं कथं न, लभेत तार्थेन(ण) सदृक्षभावम् ॥७९॥ प्रियं ब्रुवाणा जनतारवेण, सारङ्गनाभीसुरभीभवन्तम् । गजेन्द्रयानां वरणो युवेव, पुरीमहेला परिरभ्य तस्थौ ॥८०॥ जगत्त्रयीसंभवशस्तवस्तु-विस्तारसम्पूरितमध्यदेशैः । यत्रापणैः कुत्रितयापणानां श्रेणी सगोत्रैरिव भूयते स्म ॥८१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350