Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 316
________________ ३०३ परिशिष्ट-१ ५"बालीककालागुरुगन्धसार-कर्पूरपारीमृगनाभी( भि )गन्धैः । आशा अवास्यन्त यदीयहट्टै-र्यशःप्रसारैरिव सज्जनानाम् ॥४२॥ गभीररावैर्व्यवहारभाजां, घनोपलाङ्कः स्फटिकावलीभिः । अन्तर्निबद्धारुणरत्नविधु-द्विलम्बिमुक्तालतिकाबलाकैः ॥८३॥ इतस्ततो निष्पतबिन्दुकान्त-कान्ति प्रतानाङ्करवारिधारैः । महेन्द्रनीलोपलबद्धहट्टैः, पयोदवृन्दैरिव यत्र जज्ञे ॥८४॥ युग्मम् ॥ स्वर्लोकभूलोकभुजङ्गलोक-पुरी: पराभिभूय( पराभूय) यया विभूत्या । मौलौ जयाङ्का इव तुङ्गगेहे, शृङ्गप्रणद्धां कुटका ध्रियन्ते ॥८५॥ परस्परेरेण( परेण) प्रतिबिं( बिम्बि )ताभि-र्यस्यां मणीमन्दिरमण्डलीभिः । रहस्यवृतिः स्थितभित्तिगर्भ-जनस्वनेनेव वितन्यते स्म ॥८६॥ यदालयैर्हेलितहेलिमालै-रभ्रंलिहैनि( नि )दलिताङ्ककारैः । मन्ये मणीलोचनमालिकाभि-विजेतुमालोक्यत नाकलोकः ॥८७॥ श्रिया जयन्त्या जगदङ्ककारान्, यया स्म याचे शवशीभवन्त्या । स्वसौधशुद्धध्वजधोरणीभिः, प्रहस्यते पूरिव पौरुहूती ॥८८॥ ६°कुत्राऽपि चन्द्रोपलचन्द्रबद्ध - सौधोपधेः केलिशुकक्कणेन । सुरद्विषं हन्तुमिवद्विषन्त-मालोच्यते 'चन्द्रनभोमणीभ्याम् ॥८९॥ ६"स्वशात्रवाद्गोत्रभिदो भयार्ते-हिमाद्रिहेमाद्रिमुखैगिरीन्दैः । लघूभवद्भिर्भवनच्छलेन, यस्मिन् शरण्ये शरणीबभूवे ॥१०॥ सादृश्यसंस्पर्धितयाऽवलेपात्, कपोतहुङ्कारगिरेव यस्याम् । परस्परं विग्रहमादधानः, शोणाश्मगेहैररुणीबभूवे ॥११॥ गाङ्गेयगारुत्मतपद्मराग-सन्दर्भगर्भालयमालिकाभिः । भूकान्तकान्तेन सहानुषङ्गे, पुरीश्रिया क्लृप्त इवाङ्गरागः ॥१२॥ विलासवापीजलकेलिलोल-विलासिनीनां पटलच्छलेन । प्रादुर्बभूवुः पुरकौतुकानि, दृग्गोचरीकर्तुमिवाम्बुदेव्यः ॥१३॥ विद्योतिताऽशेषदिगन्तराभि-मणीमयीभिर्भवनावलीभिः । धिक्कारितध्वान्तमिवाङ्कदम्भा-दुवास राज्ञः शरणार्थमङ्के ॥१४॥ "नीलाश्मवेश्मप्रतिबिम्बमन्त-दधद्भिरेतत् तपनीयगेहैः । रामेण नीलं 'वहता दुकूलं, श्रिया समालम्ब्यत तुल्यभावः ॥१५॥ वृन्दारकालीभिरलङ्कृताया, असूययेवामरराजपुर्याः । तृणीकृतश्रीतनयावनीप-रूपानसौ धारयति स्म मान् ॥१६॥ प्रभापराभावुकवैभवायाः, यस्याः स्वपुर्याश्च परस्परेण । 1. कुम्भनिकेतयोश्चन्द्रनभोमणीभ्याम् । इति टि० । 2. केलिशुकवणेन इति टि०। 3. दधता इति टि० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350